०३७ किष्किन्धे वानरसेनामेलनम्

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ 4.37.1 ॥
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ 4.37.2 ॥
तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः।
पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ 4.37.3 ॥
आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे।
पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ 4.37.4 ॥
अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः।
अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ 4.37.5 ॥
मनःशिलागुहावासा वानराः कनकप्रभाः।
मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ 4.37.6 ॥
तरुणादित्यवर्णाश्च पर्वते च महारुणे।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ 4.37.7 ॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च।
तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ 4.37.8 ॥
तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान्।
सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ 4.37.9 ॥
प्रेषिताः प्रथमं ये च मया दूता महाजवाः।
त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् ॥ 4.37.10 ॥
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः।
इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ 4.37.11 ॥
अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ 4.37.12 ॥
शतान्यथ सहस्राणां कोट्यश्च मम शासनात्।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ 4.37.13 ॥
मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम्।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ 4.37.14 ॥
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः।
आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ 4.37.15 ॥
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ 4.37.16 ॥
ते पदं विष्णुविक्रान्तं पतत्€ित्रज्योतिरध्वगाः।
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ 4.37.17 ॥
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च।
वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ 4.37.18 ॥
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ 4.37.19 ॥
ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ 4.37.20 ॥
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः।
तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ 4.37.21 ॥
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्।
ततः कोटिसहस्राणि वानराणामुपागमन् ॥ 4.37.22 ॥
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ 4.37.23 ॥
अङ्गारकसमानानां भीमानां भीमकर्मणाम्।
विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ 4.37.24 ॥
क्षीरोदवेलानिलयास्तमालवनवासिनः।
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥ 4.37.25 ॥
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा।
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ 4.37.26 ॥
ये तु त्वरयितुं याता वानराः सर्ववानरान्।
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ 4.37.27 ॥
तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ 4.37.28 ॥
अन्ननिष्यन्दजातानि मूलानि च फलानि च।
अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ 4.37.29 ॥
तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम्।
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ 4.37.30 ॥
तानि मूलानि दिव्यानि फलानि च फलाशनाः।
औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ 4.37.31 ॥
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ 4.37.32 ॥
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्।
सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ 4.37.33 ॥
ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ 4.37.34 ॥
ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ 4.37.35 ॥
सर्वे परिगताः शैलाः समुद्राश्च वनानि च।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ 4.37.36 ॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः।
प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥ 4.37.37 ॥