इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ 4.36.1 ॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः।
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ 4.36.2 ॥
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्।
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥ 4.36.3 ॥
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् ॥ 4.36.4 ॥
प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ 4.36.5 ॥
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा।
तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ 4.36.6 ॥
सीतां प्रप्स्यति धर्मात्मा वधिष्यति च रावणम्।
सहायमात्रेण मया राघवः स्वेन तेजसा ॥ 4.36.7 ॥
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः।
शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥ 4.36.8 ॥
धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण।
सशैला कम्पिता भूमिः सहायैस्तस्य किन्नु वै ॥ 4.36.9 ॥
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ।
गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥ 4.36.10 ॥
यदि किञ्चिदतिक्रान्तं विश्वासात् प्रणयेन वा।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ 4.36.11 ॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः।
अभवील्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥ 4.36.12 ॥
सर्वथा हि मम भ्राता सनाथो वानरेश्वर।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ 4.36.13 ॥
यस्ते प्रभावः सुग्रीव यच्च ते शौचमार्जवम्।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ 4.36.14 ॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान्।
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ 4.36.15 ॥
धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ 4.36.16 ॥
दोषज्ञः सति सामर्थ्ये कोऽन्ये भाषितुमर्हति।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ 4.36.17 ॥
सदृशश्चासि रामस्य विक्रमेण बलेन च।
सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥ 4.36.18 ॥
किन्तु शीघ्रमितो वीर निष्क्राम त्वं मया सह।
सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम् ॥ 4.36.19 ॥
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्।
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥ 4.36.20 ॥