तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ 4.35.1 ॥
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति।
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विषेषतः ॥ 4.35.2 ॥
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ 4.35.3 ॥
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ 4.35.4 ॥
रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम्।
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥ 4.35.5 ॥
सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम्।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ 4.35.6 ॥
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ 4.35.7 ॥
स हि प्राप्तं न जानीते कालं कालविदां वरः।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ 4.35.8 ॥
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ 4.35.9 ॥
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ 4.35.10 ॥
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ 4.35.11 ॥
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ 4.35.12 ॥
रुमां मां करिराज्यं च धनधान्यवसूनि च।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ 4.35.13 ॥
समानेष्यति सुग्रीवः सीतया सह राघवम्।
शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥ 4.35.14 ॥
शतकोटिसहस्राणि लङ्कायां किल राक्षसाः।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ 4.35.15 ॥
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ 4.35.16 ॥
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ 4.35.17 ॥
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः।
आगमस्तु न मे व्यक्तः श्रवात्तस्माद् ब्रवीम्यहम् ॥ 4.35.18 ॥
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः।
आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ॥ 4.35.19 ॥
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ 4.35.20 ॥
कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ 4.35.21 ॥
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ 4.35.22 ॥
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः।
हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ 4.35.23 ॥