०३४ लक्ष्मणकृतं सुग्रीवतर्जनम्

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ 4.34.1 ॥
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा।
भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ॥ 4.34.2 ॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्।
महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः ॥ 4.34.3 ॥
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः।
सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ 4.34.4 ॥
संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः।
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ 4.34.5 ॥
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्।
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ 4.34.6 ॥
सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः।
कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ 4.34.7 ॥
यस्तु राजा स्थितेऽधर्मे मित्राणामुपकारिणाम्।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ 4.34.8 ॥
शतमश्वानृते हन्ति सहस्रं तु गवानृते।
आत्मानं स्वजनं हन्ति पुरषः पुरुषानृते ॥ 4.34.9 ॥
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ 4.34.10 ॥
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः।
दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ॥ 4.34.11 ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ 4.34.12 ॥
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ 4.34.13 ॥
ननु नाम कृतार्थेन त्वया रामस्य वानर।
सीतया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ 4.34.14 ॥
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः।
न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥ 4.34.15 ॥
महाभागेन रामेण पापः करुणवेदिना।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ 4.34.16 ॥
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः।
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥ 4.34.17 ॥
न च सङ्कुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ 4.34.18 ॥
न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान् शरान् पश्यसि वज्रसन्निभान्।
ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसाऽप्यवेक्षसे ॥ 4.34.19 ॥