अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा।
प्रविवेष गुहां घोरां किष्किन्धां रामशासनात् ॥ 4.33.1 ॥
द्वारस्था हरयस्तत्र महाकाया महाबलाः।
बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ 4.33.2 ॥
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्।
बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ 4.33.3 ॥
स तां रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम्।
रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ॥ 4.33.4 ॥
हर्म्यप्रासादसम्बाधां नानापण्योपशोभिताम्।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ 4.33.5 ॥
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः।
दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः ॥ 4.33.6 ॥
मैरेयाणां मधूनां च सम्मोदितमहापथाम्।
ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ 4.33.7 ॥
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च।
गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥ 4.33.8 ॥
विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः।
वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ॥ 4.33.9 ॥
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा।
दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ 4.33.10 ॥
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ 4.33.11 ॥
पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च।
प्रभूतधनाधान्यानि स्त्रीरत्नैः शोभितानि च ॥ 4.33.12 ॥
पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम्।
वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ 4.33.13 ॥
शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः।
सर्वकामफलैर्वृक्षैः पुष्पितै रुपशोभितम् ॥ 4.33.14 ॥
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः।
दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ॥ 4.33.15 ॥
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः।
दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ 4.33.16 ॥
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः।
अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥ 4.33.17 ॥
स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः।
प्रविश्य सुमहद् गुप्तं ददर्शान्तःपुरं महत् ॥ 4.33.18 ॥
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः।
महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ॥ 4.33.19 ॥
प्रविशन्नेव सततं शुश्राव मधुरस्वरम्।
तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् ॥ 4.33.20 ॥
बह्वीश्च विविधाकारा रूपयौवनगर्विताः।
स्त्रियः सुग्रीवभवने ददर्श स महाबलः ॥ 4.33.21 ॥
दृष्ट्वाऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्नजः।
फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ 4.33.22 ॥
नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान्।
सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ 4.33.23 ॥
कूजितं नूपुराणां च काञ्चीनां निनदं तथा।
सन्निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत् ॥ 4.33.24 ॥
रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्।
चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥ 4.33.25 ॥
चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः।
तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ॥ 4.33.26 ॥
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः।
विज्ञायागमनं त्रस्तः सञ्चचाल वरासनात् ॥ 4.33.27 ॥
अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम्।
सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥ 4.33.28 ॥
अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ 4.33.29 ॥
ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्।
उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः ॥ 4.33.30 ॥
किन्नु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः।
सरोष इव सम्प्राप्तो येनायं राघवानुजः ॥ 4.33.31 ॥
किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते।
न खल्वकारणे कोपमाहरेन्नरसत्तमः ॥ 4.33.32 ॥
यदस्य कृतमस्माभिर्बुध्यसे किञ्चिदप्रियम्।
तद् बुद्ध्या सम्प्रधार्याशु क्षिप्रमर्हसि भाषितुम् ॥ 4.33.33 ॥
अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम्।
वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ 4.33.34 ॥
त्वद्दर्शनविशुद्धात्मा न स कोपं करिष्यति।
नहि स्त्रिषु महात्मानः क्वचिर्त्कुवन्ति दारुणम् ॥ 4.33.35 ॥
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्।
ततः कमलपत्त्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥ 4.33.36 ॥
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा।
सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयाष्टिः ॥ 4.33.37 ॥
स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा।
अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ 4.33.38 ॥
सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः।
उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम् ॥ 4.33.39 ॥
किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न सन्तिष्ठति वाङ्निदेशे।
कः शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः ॥ 4.33.40 ॥
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमसंशयम्।
भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत् ॥ 4.33.41 ॥
किमयं कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः।
भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे ॥ 4.33.42 ॥
न चिन्तयति राज्यार्थं नास्मान् शोकपरायणान्।
सामात्यपरिषत्तारे पानमेवोपसेवते ॥ 4.33.43 ॥
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः।
व्यीतीतांस्तान्मदव्यग्रो विहरन्नावबुध्यते ॥ 4.33.44 ॥
नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते।
पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥ 4.33.45 ॥
धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ 4.33.46 ॥
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्।
तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥ 4.33.47 ॥
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्।
यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥ 4.33.48 ॥
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम्।
तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥ 4.33.49 ॥
न कोपकालः क्षितिपालपुत्र न चातिकोपः स्वजने विधेयः।
त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम् ॥ 4.33.50 ॥
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे।
कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ 4.33.51 ॥
जानामि रोषं हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम्।
जानामि कार्यं त्वयि यत्कृतं नस्तञ्चापि जानामि यदत्र कार्यम् ॥ 4.33.52 ॥
तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीरजस्य।
जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥ 4.33.53 ॥
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः।
न देशकालौ हि न चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥ 4.33.54 ॥
तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम्।
क्षमस्व तावत्परवीरहन्तस्त्वद्भ्रातरं वानरवंशनाथम् ॥ 4.33.55 ॥
महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः।
अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥ 4.33.56 ॥
इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम्।
पुनः सखेलं मदविह्वलं च भर्तुर्हितं वाक्यमिदं बभाषे ॥ 4.33.57 ॥
उद्योगस्तु चिराज्ञप्तः सुग्रवेण नरोत्तम।
कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ 4.33.58 ॥
आगता हि महावीर्या हरयः कामरूपिणः।
कोटीशतसहस्राणि नानानगनिवासिनः ॥ 4.33.59 ॥
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया।
अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ 4.33.60 ॥
तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः।
प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः ॥ 4.33.61 ॥
ततः सुग्रवमासीनं काञ्चने परमासने।
महार्हास्तरणोपेते ददर्शादित्यसन्निभम् ॥ 4.33.62 ॥
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्।
दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ॥ 4.33.63 ॥
दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्।
संरब्धतररक्ताक्षो बभूवान्तकसन्निभः ॥ 4.33.64 ॥
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः।
ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशालनेत्रम् ॥ 4.33.65 ॥