०३२ हनुमता सुग्रीवबोधनम्

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ 4.32.1 ॥
सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्।
मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥ 4.32.2 ॥
न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम्।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ 4.32.3 ॥
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः।
मम दोषानसम्भूतान् श्रावितो राघवानुजः ॥ 4.32.4 ॥
अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि।
भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ॥ 4.32.5 ॥
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्।
मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम् ॥ 4.32.6 ॥
सर्वथा सुकरं मित्रं दुष्करं परिपालनम्।
अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥ 4.32.7 ॥
अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना।
यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥ 4.32.8 ॥
सुग्रीवेणैवमुक्तस्तु हनुमान् हरिपुङ्गवः।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ 4.32.9 ॥
सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर।
न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ॥ 4.32.10 ॥
राघवेण तु वीरेण भयमुत्सृज्य दूरतः।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ 4.32.11 ॥
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः।
भ्रातरं सम्प्रहितवान् लक्ष्मणं लक्ष्मिवर्द्धनम् ॥ 4.32.12 ॥
त्वं प्रमत्तो न जानीषे कालं कालविदां वर।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ 4.32.13 ॥
निर्मलग्रहनक्षत्रा द्यौः प्रनष्टबलाहका।
प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥ 4.32.14 ॥
प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ 4.32.15 ॥
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्।
वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ 4.32.16 ॥
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥ 4.32.17 ॥
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्।
अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ 4.32.18 ॥
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः।
सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥ 4.32.19 ॥
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ 4.32.20 ॥
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः।
राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥ 4.32.21 ॥
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम्।
मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ 4.32.22 ॥