स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम्।
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ 4.31.1 ॥
न वानरः स्थास्यति साधुवृत्ते न मंस्यते कर्मफलानुषङ्गान्।
न भोक्ष्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः ॥ 4.31.2 ॥
मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः।
हतोऽग्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम् ॥ 4.31.3 ॥
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य।
हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु ॥ 4.31.4 ॥
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्।
उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ 4.31.5 ॥
न हि वै त्वद्विधो लोके पापमेवं समाचरेत्।
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ 4.31.6 ॥
नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ 4.31.7 ॥
सामोपहितया वाचा रूक्षाणि परिवर्जयन्।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ 4.31.8 ॥
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः।
प्रविवेष पुरीं वीरो लक्ष्मणः परवीरहा ॥ 4.31.9 ॥
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ 4.31.10 ॥
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः।
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ 4.31.11 ॥
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्।
बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तथा ॥ 4.31.12 ॥
कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः।
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ 4.31.13 ॥
सालतालाश्वकर्णाश्च तरसा पातयन् बहून्।
पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ 4.31.14 ॥
शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः।
दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् ॥ 4.31.15 ॥
तामपश्यद्वलाकीर्णां हरि राजमहापुरीम्।
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे ॥ 4.31.16 ॥
रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः।
ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् ॥ 4.31.17 ॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्।
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ 4.31.18 ॥
तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः।
वभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ॥ 4.31.19 ॥
तं ते भयपरिताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः।
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ 4.31.20 ॥
ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः।
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ 4.31.21 ॥
तारया सहितः कामी सक्तः कपिवृषो रहः।
न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ 4.31.22 ॥
ततः सचिवसन्दिष्टा हरयो रोमहर्षणाः।
गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ 4.31.23 ॥
नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः।
सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ 4.31.24 ॥
दशनागबलाः केचित्केचिद्दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्याविक्रमाः ॥ 4.31.25 ॥
कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः।
अपश्यल्लक्ष्मणः क्रुद्धः किष्कन्धां तां दुरसदाम् ॥ 4.31.26 ॥
ततस्ते हरयः सर्वे प्राकारपरिघान्तरात्।
निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ 4.31.27 ॥
सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान्।
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ॥ 4.31.28 ॥
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः।
बभूव नरशार्दूलः सधूम इव पावकः ॥ 4.31.29 ॥
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्।
स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ॥ 4.31.30 ॥
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्।
समासाद्याङ्गदस्त्रासाद्विषादमगमद् भृशम् ॥ 4.31.31 ॥
सोऽङ्दं रोषताम्राक्षः सन्दिदेश महायशाः।
सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ 4.31.32 ॥
एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः।
भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः ॥ 4.31.33 ॥
तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर।
इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम ॥ 4.31.34 ॥
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्।
पितुः समीपमागम्य सौमित्रिरयमागतः ॥ 4.31.35 ॥
अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः।
निपत्य तूर्णं नृपतेस्तरस्वी ततः कुमारश्चरणौ ववन्दे ॥ 4.31.36 ॥
सङ्गृह्य पादौ पितुरग्र्यतेजा जग्राह मातुः पुनरेव पादौ।
पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ 4.31.37 ॥
स निद्रामदसंवीतो वानरो न विबुद्धवान्।
बभूव मदमत्तश्च मदनेन च मोहितः ॥ 4.31.38 ॥
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः।
प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ 4.31.39 ॥
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्।
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ 4.31.40 ॥
तेन शब्देन महता प्रत्यबुध्यत वानरः।
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ 4.31.41 ॥
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ।
मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ ॥ 4.31.42 ॥
प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः।
वक्तुमुञ्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ 4.31.43 ॥
प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः।
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ 4.31.44 ॥
सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ।
वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ 4.31.45 ॥
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः।
यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः ॥ 4.31.46 ॥
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः।
व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ 4.31.47 ॥
अयं च दयितो राजन् तारायास्तनयोऽङ्गदः।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥ 4.31.48 ॥
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्।
वानरान्वानरपते चक्षुषा निर्दहन्निव ॥ 4.31.49 ॥
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः।
गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम् ॥ 4.31.50 ॥
यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः।
राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ 4.31.51 ॥