०३० शरद्वर्णनम्-रामविलापश्च

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ 4.30.1 ॥
पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ 4.30.2 ॥
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥ 4.30.3 ॥
स तु सञ्ज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः।
मनस्स्थामपि वैदेहीं चिन्तयामास राघवः ॥ 4.30.4 ॥
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥ 4.30.5 ॥
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्।
सारसारवसङ्घुष्टं विललापार्तया गिरा ॥ 4.30.6 ॥
सारसारवसन्नादैः सारसारवनादिनी।
याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥ 4.30.7 ॥
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्।
कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ 4.30.8 ॥
या पुरा कलहंसानां स्वरेण कलभाषिणी।
बुध्यते चारुसर्वाङ्गी साऽद्य मे बुध्यते कथम् ॥ 4.30.9 ॥
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ 4.30.10 ॥
सरांसि सरितो वापीः काननानि वनानि च।
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥ 4.30.11 ॥
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्।
न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥ 4.30.12 ॥
एवमादि नरश्रेष्ठो विललाप नृपात्मजः।
विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ 4.30.13 ॥
ततश्चञ्चूर्यरम्येषु फलार्थी गिरिसानुषु।
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् ॥ 4.30.14 ॥
तं चिन्तया दुस्सहया परीतं विसञ्ज्ञमेकं विजने मनस्वी।
भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ 4.30.15 ॥
किमार्य कामस्य वशङ्गतेन किमात्मपौरुष्यपराभवेन।
अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥ 4.30.16 ॥
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम्।
सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं च कुरुष्व हेतुम् ॥ 4.30.17 ॥
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण।
न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवरार्ह कच्चित् ॥ 4.30.18 ॥
सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः।
हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च ॥ 4.30.19 ॥
निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः।
ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं न चिन्त्यम् ॥ 4.30.20 ॥
अथ पद्मपलाशाक्षीं मैथीलीमनुचिन्तयन्।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ 4.30.21 ॥
तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम्।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ 4.30.22 ॥
स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः।
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ 4.30.23 ॥
नीलोत्पलदलश्यामाः श्यामी कृत्वा दिशो दश।
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ 4.30.24 ॥
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ 4.30.25 ॥
घनानां वारणानां च मयूराणां च लक्ष्मण।
नादः प्रस्रवणानां च प्रशान्तः सहसाऽनघ ॥ 4.30.26 ॥
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः।
अनुलिप्ता इवाभान्ति गिरयश्चित्रदीप्तिभिः ॥ 4.30.27 ॥
दर्शयन्ति शरन्नद्यः पुलिनानि शनैःशनैः।
नवसङ्गमसव्रीडा जघनानीव योषितः ॥ 4.30.28 ॥
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्।
लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ 4.30.29 ॥
सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपनीता।
सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ 4.30.30 ॥
सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः।
मत्तद्विपानां पवनोऽनुसारी दर्पं वनेष्वभ्यदिकं करोति ॥ 4.30.31 ॥
अभ्यागतैश्चारुविशालपक्षैः सरः प्रियैः पद्मरजोवकीर्णैः।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥ 4.30.32 ॥
मदप्रगर्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता ॥ 4.30.33 ॥
नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ 4.30.34 ॥
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः।
सुवर्णगौरैर्नयनाभिरामैरुद्द्योतितानीव वनान्तराणि ॥ 4.30.35 ॥
प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम्।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः ॥ 4.30.36 ॥
व्यभ्रं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि।
कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ 4.30.37 ॥
सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः।
अन्योन्यवैरामर्षायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥ 4.30.38 ॥
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः।
मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ 4.30.39 ॥
समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः।
मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति ॥ 4.30.40 ॥
त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम्।
निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः ॥ 4.30.41 ॥
वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः।
सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥ 4.30.42 ॥
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु।
ससारसा रावविनादितासु नदीषु हृष्टा निपनन्ति हंसाः ॥ 4.30.43 ॥
नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम्।
प्लवङ्गमानां च गतोत्सवानां द्रुतं रवाः सम्प्रति सम्प्रनष्टाः ॥ 4.30.44 ॥
अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः।
क्षुधार्दिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः ॥ 4.30.45 ॥
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ 4.30.46 ॥
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा।
ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥ 4.30.47 ॥
विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः।
नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ॥ 4.30.48 ॥
सुप्तैकहंसं कुसुमैरुपेतं महाह्रदस्थं सलिलं विभाति।
घनैर्विमुक्तं निशि पूर्णचन्द्रं तारा गणाकीर्णमिवान्तरिक्षम् ॥ 4.30.49 ॥
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्।
वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ॥ 4.30.50 ॥
वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः।
सम्मूर्च्छितो गर्गरगोवृषाणामन्योन्यमापूरयतीव शब्दः ॥ 4.30.51 ॥
नवैर्नदीनां कुसुमप्रभासैर्व्याधूयमानैर्मृदुमारुतेन।
धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥ 4.30.52 ॥
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ॥ 4.30.53 ॥
जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवनं विपक्वम्।
मदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम् ॥ 4.30.54 ॥
मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः।
कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ 4.30.55 ॥
सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि।
सपत्€त्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥ 4.30.56 ॥
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु।
गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः ॥ 4.30.57 ॥
लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥ 4.30.58 ॥
प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ 4.30.59 ॥
असनाः सप्तवर्णाश्च कोविदाराश्च पुष्पिताः।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥ 4.30.60 ॥
हंससारसचक्राह्वैः कुररैश्च समन्ततः।
पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ 4.30.61 ॥
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ 4.30.62 ॥
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज।
न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥ 4.30.63 ॥
चत्वारो वार्षिका मासा गता वर्षशतोपमाः।
मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ 4.30.64 ॥
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्।
विषमं दण्डकारण्यमुद्यानमिव याऽऽगता ॥ 4.30.65 ॥
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ 4.30.66 ॥
अनाथो हृतराज्योऽयं रावणेन च धर्षितः।
दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ 4.30.67 ॥
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः।
अहं वानरराजस्य परिभूतः परन्तप ॥ 4.30.68 ॥
स कालं परिसङ्ख्याय सीतायाः परिमार्गणे।
कृतार्थः समयं कृत्वा दुर्मतिर्नावबुद्ध्यते ॥ 4.30.69 ॥
त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम्।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ 4.30.70 ॥
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ 4.30.71 ॥
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥ 4.30.72 ॥
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये।
तान् मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ 4.30.73 ॥
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे।
द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ 4.30.74 ॥
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे।
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥ 4.30.75 ॥
काममेवं गतेप्यस्य परिज्ञाते पराक्रमे।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ 4.30.76 ॥
यदर्थमयमारम्भः कृतः परपुरञ्जय।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ 4.30.77 ॥
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः।
व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते ॥ 4.30.78 ॥
सामात्यपरिषत् क्रीडन् पानमेवोपसेवते।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ 4.30.79 ॥
उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल।
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥ 4.30.80 ॥
न च सङ्कुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ 4.30.81 ॥
एक एव रणे वाली शरेण निहतो मया।
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ 4.30.82 ॥
तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ।
तत्तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ॥ 4.30.83 ॥
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्।
मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः ॥ 4.30.84 ॥
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्।
चकार तीव्रं मतिमुग्रतेजा हरीश्वरे मानववंशनाथः ॥ 4.30.85 ॥