समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्।
सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥ 4.29.1 ॥
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्।
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ 4.29.2 ॥
निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा।
प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ 4.29.3 ॥
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ 4.29.4 ॥
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ 4.29.5 ॥
उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ 4.29.6 ॥
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः।
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ 4.29.7 ॥
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्।
हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् ॥ 4.29.8 ॥
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता।
मित्राणां सङ्ग्रहः शेषस्तं भवान् कर्तुमर्हति ॥ 4.29.9 ॥
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते।
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥ 4.29.10 ॥
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप।
समवेतानि सर्वाणि स राज्यं महदश्नुते ॥ 4.29.11 ॥
तद्भावन् वृत्तसम्पन्नः स्थितः पथि निरत्यये।
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ 4.29.12 ॥
सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते।
सम्भ्रमाद्धि कृतोत्साहः सोऽनर्थैर्नावरुध्यते ॥ 4.29.13 ॥
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते।
स कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते ॥ 4.29.14 ॥
यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम।
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ॥ 4.29.15 ॥
तदिदं वीरकार्यं ते कालतीतमरिन्दम ॥ 4.29.16 ॥
न च कालमतीतं ते निवेदयति कालवित्।
त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वशानुगः ॥ 4.29.17 ॥
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ 4.29.18 ॥
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव।
हरीश्वर हरिश्रोष्ठानाज्ञापयितुमर्हसि ॥ 4.29.19 ॥
न हि तावद्भवेत्कालो व्यतीतश्चेदनादृते।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ 4.29.20 ॥
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर।
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ 4.29.21 ॥
शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ॥ 4.29.22 ॥
कामं खलु शरैः शक्तः सुरासुरमहोरगान्।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ 4.29.23 ॥
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम्।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ 4.29.24 ॥
न देवा न च गन्धर्वा नासुरा न मरुद्गणाः।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ 4.29.25 ॥
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ 4.29.26 ॥
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे।
कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥ 4.29.27 ॥
तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु।
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ॥ 4.29.28 ॥
तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम्।
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥ 4.29.29 ॥
स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम्।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ॥ 4.29.30 ॥
यथा सेना समग्रा मे यूथपालाश्च सर्वशः।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥ 4.29.31 ॥
समानयन्तु ते सैन्यं त्वरिताः शासनान्म।
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ 4.29.32 ॥
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ 4.29.33 ॥
हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम्।
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ 4.29.34 ॥