०२७ रामेण प्रस्रवणगिरिनिवासः

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ 4.27.1 ॥
शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम्।
नानागुल्मलतागूढं बहुपादपसङ्कुलम् ॥ 4.27.2 ॥
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्।
मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ 4.27.3 ॥
तस्य शैलस्य शिखरे महतीमायतां गुहाम्।
प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ॥ 4.27.4 ॥
कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः।
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥ 4.27.5 ॥
इयं गिरिगुहा रम्या विशाला युक्तमारुता।
अस्यां वसाव सौमित्रे वर्षरात्रमरिन्दम ॥ 4.27.6 ॥
गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज।
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् ॥ 4.27.7 ॥
नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्।
विविधैर्वृक्षषण्डैश्च चारुचित्रलतावृतम् ॥ 4.27.8 ॥
नानाविहगसङ्घुष्टं मयूररवनादितम्।
मालतीकुन्दगुल्मैश्च सिन्दुवारकुरण्टकैः ॥ 4.27.9 ॥
कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ 4.27.10 ॥
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता।
नातिदूरे गुहाया नौ भविष्यति नृपात्मज ॥ 4.27.11 ॥
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ 4.27.12 ॥
गुहाद्वारे च सौमित्रे शिला समतला शुभा।
श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ 4.27.13 ॥
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्।
भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ॥ 4.27.14 ॥
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम्।
कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ 4.27.15 ॥
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्।
गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ 4.27.16 ॥
चम्पकैस्तिलैस्तालैस्तमालैरतिमुक्तकैः।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ 4.27.17 ॥
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः।
हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः कृतमालकैः ॥ 4.27.18 ॥
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः।
वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता ॥ 4.27.19 ॥
शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता।
एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता ॥ 4.27.20 ॥
पुलिनैरतिरम्यैश्च हंससारससेवितैः।
प्रहसन्तीव भात्यैषा नारी सर्वविभूषिता ॥ 4.27.21 ॥
क्वचिन्नीलोत्पलच्छन्ना भाति रक्तोत्पलैः क्वचित्।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः ॥ 4.27.22 ॥
पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता।
रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता ॥ 4.27.23 ॥
पश्य चन्दनवृक्षाणां पड्क्तीः सुरचिता इव।
ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥ 4.27.24 ॥
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन।
दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै ॥ 4.27.25 ॥
इतश्च नातिदूरे सा किष्कन्धा चित्रकानना।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ 4.27.26 ॥
गीतवादित्रनिर्घोषः श्रूयते जयतां वर।
नर्दतां वानराणां च मृदङ्गाडम्बरैः सह ॥ 4.27.27 ॥
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः।
ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम् ॥ 4.27.28 ॥
इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः।
बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ ॥ 4.27.29 ॥
वसतस्तस्य रामस्य रतिरल्पापि नाभवत्।
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ॥ 4.27.30 ॥
उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः।
आविवेश न तं निद्रा निशासु शयनं गतम् ॥ 4.27.31 ॥
तत्समुत्थेन शोकेन बाष्पोपहतचेतसम्।
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ॥ 4.27.32 ॥
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन् वचः ॥ 4.27.33 ॥
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि।
शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ॥ 4.27.34 ॥
भवान् क्रियापरो लोके भवान् दैवपरायणः।
आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ 4.27.35 ॥
न ह्यव्यवसितः शुत्रुं राक्षसं तं विशेषतः।
समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ॥ 4.27.36 ॥
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु।
ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ 4.27.37 ॥
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्।
परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ॥ 4.27.38 ॥
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः।
ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ 4.27.39 ॥
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये।
दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ 4.27.40 ॥
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्।
राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ 4.27.41 ॥
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ 4.27.42 ॥
एष शोकः परित्यक्तः सर्वकार्यावसादकः।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ 4.27.43 ॥
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ 4.27.44 ॥
उपकारेण वीरस्तु प्रतिकारेण युज्यते।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ 4.27.45 ॥
अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ॥ 4.27.46 ॥
यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः।
शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ 4.27.47 ॥
नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह।
वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम् ॥ 4.27.48 ॥