०२६ अङ्गदयौवराज्याभिषेकः

ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम्।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ 4.26.1 ॥
अभिगम्य महाबाहुं राममक्लिष्टकारिणम्।
स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ 4.26.2 ॥
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः।
अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ 4.26.3 ॥
भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ 4.26.4 ॥
भवता समनुज्ञातः प्रविश्य नगरं शुभम्।
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ 4.26.5 ॥
स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि।
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥ 4.26.6 ॥
इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि।
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षयन् ॥ 4.26.7 ॥
एवमुक्तो हनुमता राघवः परवीरहा।
प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ 4.26.8 ॥
चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्।
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ॥ 4.26.9 ॥
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः।
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥ 4.26.10 ॥
एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्।
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् ॥ 4.26.11 ॥
ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते।
अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ 4.26.12 ॥
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः।
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसञ्ज्ञकाः ॥ 4.26.13 ॥
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्।
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ 4.26.14 ॥
इयं गिरिगुहा रम्या विशाला युक्तमारुता।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ 4.26.15 ॥
कार्तिके समनुप्राप्ते त्वं रावणवधे यत।
एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ 4.26.16 ॥
अभिषिक्तः स्वराज्ये च सुहृदः सम्प्रहर्षय ॥ 4.26.17 ॥
इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः।
प्रविवेश पुरीं रम्यां किष्कन्धां वालिपालिताम् ॥ 4.26.18 ॥
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्।
अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ॥ 4.26.19 ॥
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्।
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ 4.26.20 ॥
सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्।
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥ 4.26.21 ॥
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम्।
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ 4.26.22 ॥
तस्य पाण्डुरमाजह्रुश्छत्€त्रं हेमपरिष्कृतम्।
शुक्ले च वालव्यजने हेमदण्डे यशस्करे ॥ 4.26.23 ॥
तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि।
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥ 4.26.24 ॥
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्।
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ 4.26.25 ॥
अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी।
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ 4.26.26 ॥
समालम्भनमादाय रोचनां समनः शिलाम्।
आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ 4.26.27 ॥
ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि।
रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान् ॥ 4.26.28 ॥
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्।
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ 4.26.29 ॥
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ 4.26.30 ॥
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने।
नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ 4.26.31 ॥
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः।
अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ 4.26.32 ॥
शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ 4.26.33 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव हनुमान् जाम्बवान्नलः ॥ 4.26.34 ॥
अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ 4.26.35 ॥
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः।
प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥ 4.26.36 ॥
रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः।
अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ 4.26.37 ॥
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः।
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ 4.26.38 ॥
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः।
प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तति ॥ 4.26.39 ॥
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता।
बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ 4.26.40 ॥
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः।
रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥ 4.26.41 ॥