सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः।
समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ 4.25.1 ॥
न शोकपरितापेन श्रेयसा युज्यते मृतः।
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ॥ 4.25.2 ॥
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्।
न कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम् ॥ 4.25.3 ॥
नियतिः कारणं लोके नियतिः कर्मसाधनम्।
नियतिः सर्वभातानां नियोगेष्विह कारणम् ॥ 4.25.4 ॥
न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः।
स्वाभावे वर्तते लोकस्तस्य कालः परायणम् ॥ 4.25.5 ॥
न कालः कालमत्येति न कालः परिहीयते।
स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ 4.25.6 ॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः।
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ॥ 4.25.7 ॥
किन्तु कालपरीणामो द्रष्टव्यः साधु पश्यता।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ 4.25.8 ॥
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्।
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ॥ 4.25.9 ॥
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ 4.25.10 ॥
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः।
तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ 4.25.11 ॥
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ 4.25.12 ॥
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥ 4.25.13 ॥
ताराङ्गदाभ्यां सहितो वालनो दहनं प्रति।
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ॥ 4.25.14 ॥
चन्दनादीनि दिव्यानि वालिसंस्कारकारणात्।
समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् ॥ 4.25.15 ॥
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च।
घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ॥ 4.25.16 ॥
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्।
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥ 4.25.17 ॥
सज्जीभवन्तु प्लवगाः शिबिकावहनोचिताः।
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ 4.25.18 ॥
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्द्धनः।
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ 4.25.19 ॥
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ 4.25.20 ॥
आदाय शिबिकां तारः स तु पर्यापतत्पुनः ॥ 4.25.21 ॥
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः।
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् ॥ 4.25.22 ॥
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्।
आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः ॥ 4.25.23 ॥
विमानमिव सिद्धानां जालवातायनावृताम्।
सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ॥ 4.25.24 ॥
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्।
वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥ 4.25.25 ॥
पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ 4.25.26 ॥
ईदृशीं शिबीकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥ 4.25.27 ॥
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा।
आरोपयत विक्रोशन्नङ्गदेन सहैव तु ॥ 4.25.28 ॥
आरोप्य शिबिकां चैव वालिनं गतजीवितम्।
अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ 4.25.29 ॥
आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः।
और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ॥ 4.25.30 ॥
विश्राणयन्तो रत्नानि विविधानि बहून्यापि।
अग्रतः प्लवगाः यान्तु शिबिका समनन्तरम् ॥ 4.25.31 ॥
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः।
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् ॥ 4.25.32 ॥
अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा।
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ 4.25.33 ॥
ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः।
चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ 4.25.34 ॥
ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः।
अनुजग्मुर्हि भर्तारं क्रशन्त्यः करुणस्वनाः ॥ 4.25.35 ॥
तासां रुदितशब्देन वानरीणां वनान्तरे।
वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ 4.25.36 ॥
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते।
चितां चक्रुः सुबहवो वानराः शोककर्शिताः ॥ 4.25.37 ॥
अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः।
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ 4.25.38 ॥
ततस्तारा पतिं दृष्टा शिबिकातलशायिनम्।
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ 4.25.39 ॥
हा महार्ह महाबाहो हा मम प्रिय पश्य माम्।
जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ 4.25.40 ॥
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद।
अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ॥ 4.25.41 ॥
एष त्वां रामरूपेण कालः कर्षति वानर।
येन स्म विधवाः सर्वाः कृता एकेषुणा वने ॥ 4.25.42 ॥
पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे।
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ॥ 4.25.43 ॥
इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम्।
एते हि सचिवा राजन् तारप्रभृतयस्तव ॥ 4.25.44 ॥
विसर्जयैतान् प्लवगान् यथोचितमरिन्दम।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ 4.25.45 ॥
एवं विलपतीं तारां पतिशोकपरिप्लुताम्।
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥ 4.25.46 ॥
सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्।
चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥ 4.25.47 ॥
ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ 4.25.48 ॥
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः।
आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम् ॥ 4.25.49 ॥
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः।
सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ॥ 4.25.50 ॥
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः।
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ 4.25.51 ॥
ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम्।
प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः ॥ 4.25.52 ॥