तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन।
पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ॥ 4.24.1 ॥
स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी।
जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः ॥ 4.24.2 ॥
स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम्।
यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥ 4.24.3 ॥
यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म।
ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन ॥ 4.24.4 ॥
अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते।
हतेऽग्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे ॥ 4.24.5 ॥
क्रोधादमर्षादतिविप्रधर्षात् भ्रातुर्वधो मेऽनुमतः पुरस्तात्।
हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥ 4.24.6 ॥
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके।
यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ॥ 4.24.7 ॥
न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच।
तस्यैव तद्राम वचोऽनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ॥ 4.24.8 ॥
भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत।
राज्यस्य दुःखस्य च वीर सारं न चिन्तयन् कामपुरस्कृतः सन् ॥ 4.24.9 ॥
वधो हि मे मतो नासीत्स्वमाहात्म्यव्यतिक्रमात्।
ममासीद् बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥ 4.24.10 ॥
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्ठनन्।
सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ 4.24.11 ॥
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः।
मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ 4.24.12 ॥
अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम्।
प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥ 4.24.13 ॥
पाम्पानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च।
को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छन् ॥ 4.24.14 ॥
नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम्।
अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा ॥ 4.24.15 ॥
पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव।
शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ 4.24.16 ॥
सोदर्यघाताऽपरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः।
एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ॥ 4.24.17 ॥
अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधु वृत्तम्।
विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम् ॥ 4.24.18 ॥
महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम।
अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमितीव मन्ये ॥ 4.24.19 ॥
सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशोऽङ्गदेन।
न चापि विद्येत स वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः ॥ 4.24.20 ॥
यद्यङ्गदो वीर वरार्ह जीवेज्जीवेच्च माता परिपालनार्थम्।
विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥ 4.24.21 ॥
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन्।
इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः ॥ 4.24.22 ॥
कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र।
कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम् ॥ 4.24.23 ॥
इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य।
सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव ॥ 4.24.24 ॥
तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान् भुवनस्य गोप्ता।
रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम् ॥ 4.24.25 ॥
तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम्।
उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम् ॥ 4.24.26 ॥
सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना।
ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ 4.24.27 ॥
सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा।
अदृष्टपूर्वं पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥ 4.24.28 ॥
तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या।
आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ 4.24.29 ॥
सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ 4.24.30 ॥
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः ॥ 4.24.31 ॥
त्वमात्तबाणासनबाणपाणिर्महाबलः संहननोपपन्नः।
मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ 4.24.32 ॥
येनैकबाणेन हतः प्रियो मे तेनेव मां त्वं जहि सायकेन।
हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ 4.24.33 ॥
स्वर्गेऽपि पद्मामलपत्त्रनेत्रः समेत्य सम्प्रेक्ष्य च मामपश्यन्।
न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ॥ 4.24.34 ॥
स्वर्गेऽपि शेकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली।
रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथात्वम् ॥ 4.24.35 ॥
त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः।
तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ 4.24.36 ॥
आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र।
शास्त्रप्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥ 4.24.37 ॥
दारप्रदानान्न हि दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके ॥ 4.24.38 ॥
त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर।
अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीर घातात् ॥ 4.24.39 ॥
अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेणधीमता।
विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥ 4.24.40 ॥
इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ 4.24.41 ॥
मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा।
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥ 4.24.42 ॥
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम्।
धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति ॥ 4.24.43 ॥
आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन।
सा वीरपन्ती ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥ 4.24.44 ॥