०२३ ताराशोकः

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्।
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ 4.23.1 ॥
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम।
उपलोपचिते वीर सुदुःखे वसुधातले ॥ 4.23.2 ॥
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव।
शेषे हि तां पिरिष्वज्य मां च न प्रतिभाषसे ॥ 4.23.3 ॥
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ 4.23.4 ॥
एषां विलपितं कृच्छ्रमङ्गदस्य च शेचतः।
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥ 4.23.5 ॥
इदं तद्वीरशयनं यत्र शेषे हतो युधि।
शायिता निहता यत्र त्वयैव रिपवः पुरा ॥ 4.23.6 ॥
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय।
मामनाथां विहायैकां गतस्त्वमसि मानद ॥ 4.23.7 ॥
शूराय न प्रदातव्या कन्या खलु विपश्चिता।
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ॥ 4.23.8 ॥
अवभग्नश्च मे मानो भग्ना मे साश्वती गतिः।
अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ॥ 4.23.9 ॥
अश्मसारमयं नूनमिदं मे हृदयं दृढम्।
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ॥ 4.23.10 ॥
सुहृच्चै व हि भर्ता च प्रकृत्या मम च प्रियः।
आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ 4.23.11 ॥
पतिहीना तु या नारी कामं भवतु पुत्रिणी।
धनधान्यैः सुपूर्णाऽपि विधवेत्युच्यते जनैः ॥ 4.23.12 ॥
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले।
कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ 4.23.13 ॥
रेणुशोणितसंवीतं गात्रं तव समन्ततः।
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ 4.23.14 ॥
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे।
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ 4.23.15 ॥
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव।
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥ 4.23.16 ॥
उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा।
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ 4.23.17 ॥
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः।
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ 4.23.18 ॥
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः।
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् ॥ 4.23.19 ॥
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना।
आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ॥ 4.23.20 ॥
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्।
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥ 4.23.21 ॥
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्।
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ॥ 4.23.22 ॥
बालसूर्योदयतनुं प्रयान्तं यमसादनम्।
अभिवादय राजानं पितरं पुत्र मानदम् ॥ 4.23.23 ॥
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः।
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ॥ 4.23.24 ॥
अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा।
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ 4.23.25 ॥
अहं पुत्रसहाया त्वामुपासे गतचेतसम्।
सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ॥ 4.23.26 ॥
इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि।
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ 4.23.27 ॥
या दत्ता देवराजेन तव तुष्टेन संयुगे।
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ 4.23.28 ॥
राजश्रीर्न जहाति त्वां गतासुमपि मानद।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ 4.23.29 ॥
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव।
हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ 4.23.30 ॥