०२२ वालिमरणम्

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्।
आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥ 4.22.1 ॥
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः।
आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ 4.22.2 ॥
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बषात्।
कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ 4.22.3 ॥
युगपद्विहितं तात न मन्ये सुखमावयोः।
सौहार्दं भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ 4.22.4 ॥
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्।
मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ 4.22.5 ॥
जीवितं हि राज्यं च श्रियं च विपुलामिमाम्।
प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥ 4.22.6 ॥
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः।
यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ॥ 4.22.7 ॥
बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्।
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ॥ 4.22.8 ॥
त्वमेवास्य हि दाता च परित्राता च सर्वतः।
भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ 4.22.9 ॥
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः।
रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ 4.22.10 ॥
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे।
करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ॥ 4.22.11 ॥
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ 4.22.12 ॥
यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम्।
नहि तारामतं किञ्चिदन्यथा परिवर्तते ॥ 4.22.13 ॥
राघवस्य च ते कार्यं कर्तव्यमविशङ्कया।
स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ 4.22.14 ॥
इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्।
उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि ॥ 4.22.15 ॥
इत्येमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥ 4.22.16 ॥
तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः।
जग्रह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ 4.22.17 ॥
तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम्।
संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥ 4.22.18 ॥
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये।
सुखदुःखसहः काले सुग्रीववशगो भव ॥ 4.22.19 ॥
यथा हि त्वं महाबाहो लालितः सततं मया।
न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ 4.22.20 ॥
मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम।
भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ 4.22.21 ॥
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते।
उभयं हि महान् दोषस्तस्मादन्तरदृग्व ॥ 4.22.22 ॥
इत्युक्त्वाऽथ विवृत्ताक्षः शरसम्पीडितो भृशम्।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ 4.22.23 ॥
ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः।
परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः ॥ 4.22.24 ॥
उद्यानानि च शून्यानि पर्वताः काननानि च।
हते प्लवगशार्दूले निष्प्रभा वानराः कृताः ॥ 4.22.25 ॥
यस्य वेगेन महता काननानि वनानि च।
पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः ॥ 4.22.26 ॥
येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः।
गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ॥ 4.22.27 ॥
नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति।
ततस्तु षोडशे वर्षे गोलभो विनिपातितः ॥ 4.22.28 ॥
हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान्।
सर्वाभयकरोऽस्माकं कथमेष निपातितः ॥ 4.22.29 ॥
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे।
वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥ 4.22.30 ॥
ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा।
जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥ 4.22.31 ॥