ततो निपतितां तारां च्युतां तारामिवाम्बरात्।
शनैराश्वासयामास हनुमान् हरियूथपः ॥ 4.21.1 ॥
गुणदेषकृतं जन्तुः स्वकर्मफलहेतुकम्।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ 4.21.2 ॥
शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे।
कस्य को वाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ 4.21.3 ॥
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ 4.21.4 ॥
जानास्यनियतामेवं भूतानामागतिं गतिम्।
तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् ॥ 4.21.5 ॥
यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च।
वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥ 4.21.6 ॥
यदयं न्यायदृष्टार्थः सामदानक्षमापरः।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ 4.21.7 ॥
सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः।
इदं हर्यृक्षराज्यं च त्वत्सनाथमनिन्दिते ॥ 4.21.8 ॥
ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि।
त्वाय परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ 4.21.9 ॥
सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्।
राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ॥ 4.21.10 ॥
संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम्।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ 4.21.11 ॥
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता।
अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ 4.21.12 ॥
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ 4.21.13 ॥
न चाहं हरिराजस्य प्रभावाम्यङ्गदस्य वा।
पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ 4.21.14 ॥
न ह्येषा बुद्धिरास्थेया हनुमन्नङ्गदं प्रति।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ 4.21.15 ॥
न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ 4.21.16 ॥