दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना।
सा समासाद्य भर्तारं पर्यष्वजत भामिनी ॥ 4.20.1 ॥
वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा।
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ 4.20.2 ॥
रणे दारुणविक्रन्त प्रवीर प्लवतां वर।
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ 4.20.3 ॥
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्।
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ 4.20.4 ॥
अतीव खलु ते कान्ता वसुधा वसुधाधिप।
गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ 4.20.5 ॥
व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तिता।
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ 4.20.6 ॥
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु।
विहृतानि त्वया काले तेषामुपरमः कृतः ॥ 4.20.7 ॥
निरानन्दा निराशाऽहं निमग्ना शोकसागरे।
त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ 4.20.8 ॥
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम्।
यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा ॥ 4.20.9 ॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः।
यत्तु तस्य त्वया व्युष्टिः प्राप्येयं प्लवगाधिप ॥ 4.20.10 ॥
निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता।
यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ 4.20.11 ॥
रूपयौवनदृप्तानां दक्षिणानां च मानद।
नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ 4.20.12 ॥
कालो निःसंशयो नूनं जीवितान्तकरस्तव।
बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ 4.20.13 ॥
वैधव्यं शोकसन्तापं कृपणं कृपणा सती।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ 4.20.14 ॥
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः।
वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते ॥ 4.20.15 ॥
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्।
दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ 4.20.16 ॥
समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च।
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ 4.20.17 ॥
रामेण हि महत्कर्मकृतं त्वामभिनिघ्नता।
आनृण्यं च गतं तस्य सुग्रवस्य प्रतिश्रवे ॥ 4.20.18 ॥
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे।
भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ 4.20.19 ॥
किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे।
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ 4.20.20 ॥
तस्या विपलितं श्रुत्वा वानर्यः सर्वतश्च ताः।
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ॥ 4.20.21 ॥
किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम्।
न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ॥ 4.20.22 ॥
किमप्रयिं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते।
सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ 4.20.23 ॥
यद्यप्रियं किञ्चिदसम्प्रधार्यं कृतं मया स्यात्तव दीर्घबाहो।
क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥ 4.20.24 ॥
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः।
व्यवस्यत प्रायमुपोपवेष्टुमनिन्द्यवर्णा भुवि यत्र वाली ॥ 4.20.25 ॥