इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्।
परुषं वालिना रामो निहतेन विचेतसा ॥ 4.18.1 ॥
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्।
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥ 4.18.2 ॥
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिमब्रवीत् ॥ 4.18.3 ॥
धर्ममथ च कामं च समयं चापि लौकिकम्।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ 4.18.4 ॥
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्।
सौम्य वानरचापल्यात्किं मां वक्तुमिहेच्छसि ॥ 4.18.5 ॥
इक्ष्वाकूणामियं भूमिः सशैलवनकानना।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥ 4.18.6 ॥
तां पालयति धर्मात्मा भरतः सत्यवागृजुः।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ 4.18.7 ॥
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्।
विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥ 4.18.8 ॥
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः।
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः ॥ 4.18.9 ॥
तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले।
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥ 4.18.10 ॥
ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥ 4.18.11 ॥
त्वं तु सङ्क्लिष्टधर्मा च कर्मणा च विगर्हितः।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥ 4.18.12 ॥
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति।
त्रयस्ते पितरो ज्ञेया धर्मे पथि हि वर्तिनः ॥ 4.18.13 ॥
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥ 4.18.14 ॥
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ 4.18.15 ॥
चपलश्चपलैः साध वानरैरकृतात्मभिः।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम् ॥ 4.18.16 ॥
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते।
न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ 4.18.17 ॥
तदेतत्कारणं पश्य यदथ त्वं मया हतः।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥ 4.18.18 ॥
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः।
रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् ॥ 4.18.19 ॥
तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर।
भ्रातृभार्यावमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः ॥ 4.18.20 ॥
नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥ 4.18.21 ॥
न हि ते मर्षये पापं क्षत्ित्रयोऽहं कुलोद्भवः ॥ 4.18.22 ॥
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः।
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥ 4.18.23 ॥
भरतस्तु महीपालो वयं त्वादेशवर्तिनः।
त्वं तु धर्मादतिक्रान्तः कथं शक्य उपेक्षितुम् ॥ 4.18.24 ॥
गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्।
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ॥ 4.18.25 ॥
वयं तु भरतादेशं विधिं कृत्वा हरीश्वर।
त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः ॥ 4.18.26 ॥
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।
दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ 4.18.27 ॥
प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ 4.18.28 ॥
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः।
शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥ 4.18.29 ॥
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥ 4.18.30 ॥
वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः।
शक्यं त्वयापि तत्कार्यं धर्ममेवानुपश्यता ॥ 4.18.31 ॥
श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ।
गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ॥ 4.18.32 ॥
राजभिर्धृतदण्डास्तु कृत्वा प्रापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ 4.18.33 ॥
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।
राजा त्वशासनात् पापं तदवाप्नोति किल्बिषम् ॥ 4.18.34 ॥
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ 4.18.35 ॥
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः।
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ 4.18.36 ॥
तदलं परितापेन धर्मतः परिकल्पितः।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥ 4.18.37 ॥
शृणु चाप्यपरं भूयः कारणं हरिपुङ्व।
यच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ॥ 4.18.38 ॥
न मे तत्र मनस्तापो न मन्युर्हरियूथप।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ 4.18.39 ॥
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान्।
प्रधावितान्वा वित्रस्तान् विस्रब्धांश्चापि निष्ठितान् ॥ 4.18.40 ॥
प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्।
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥ 4.18.41 ॥
तस्मात्त्वं निहतो यद्धे मया बाणेन वानर।
अयुध्यन्प्रतुयुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥ 4.18.42 ॥
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च।
राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ 4.18.43 ॥
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मनुष्यरूपेण चरन्त्येते महीतले ॥ 4.18.44 ॥
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः।
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥ 4.18.45 ॥
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः।
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥ 4.18.46 ॥
यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः।
प्रतिवक्तुं प्रकृष्टे हि नाप्रकृष्टस्तु शक्नुयात् ॥ 4.18.47 ॥
तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम्।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ 4.18.48 ॥
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः।
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ॥ 4.18.49 ॥
मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम्।
धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥ 4.18.50 ॥
न त्वात्मानमहं शोचे न तारां न च बान्धवान्।
यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥ 4.18.51 ॥
स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः।
तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ 4.18.52 ॥
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः।
तारेयो राम भवता रक्षणीयो महाबलः ॥ 4.18.53 ॥
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्।
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥ 4.18.54 ॥
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या।
सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि ॥ 4.18.55 ॥
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्।
सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि ॥ 4.18.56 ॥
त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्।
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ 4.18.57 ॥
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥ 4.18.58 ॥
त्वत्तोहं वधमाकाङ्क्षन्वार्यमाणोपि तारया।
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ॥ 4.18.59 ॥
इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ॥ 4.18.60 ॥
स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्।
सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया ॥ 4.18.61 ॥
न सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम ॥ 4.18.62 ॥
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ 4.18.63 ॥
दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते।
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥ 4.18.64 ॥
तद्भवान् दण्डसंयोगादस्माद्विगतकल्मषः।
गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्टेन वर्त्मना ॥ 4.18.65 ॥
त्यज शोकं च मोहं च भयं च हृदये स्थितम्।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥ 4.18.66 ॥
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥ 4.18.67 ॥
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः।
निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥ 4.18.68 ॥
शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो।
इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर ॥ 4.18.69 ॥