०१७ वालिकृतरामनिन्दा

ततः शरेणाभिहतो रामेण रणकर्कशः।
पपात सहसा वाली निकृत्त इव पादपः ॥ 4.17.1 ॥
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः।
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ 4.17.2 ॥
तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे।
नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ॥ 4.17.3 ॥
भूमौ निपतितस्यापि तस्य देहं महात्मनः।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ 4.17.4 ॥
शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता।
दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥ 4.17.5 ॥
स तया मालया वीरो हैमया हरियूथपः।
सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ 4.17.6 ॥
तस्य माला च देहश्च मर्मघाती च यः शरः।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ 4.17.7 ॥
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्।
रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ 4.17.8 ॥
तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम्।
बहु मान्य च तं वीरं वीक्षमाणं शनैरिव ॥ 4.17.9 ॥
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्।
आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥ 4.17.10 ॥
महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्।
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ॥ 4.17.11 ॥
सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्।
लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ 4.17.12 ॥
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्।
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ 4.17.13 ॥
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः।
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ॥ 4.17.14 ॥
पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः।
यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ 4.17.15 ॥
सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रतः।
इति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ 4.17.16 ॥
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥ 4.17.17 ॥
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव।
तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः ॥ 4.17.18 ॥
न मामन्येन संरब्धं प्रमत्तं योद्धुमर्हति।
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ 4.17.19 ॥
न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्।
जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ 4.17.20 ॥
सतां वेषधरं पापं प्रच्छन्नमिव पावकम्।
नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ 4.17.21 ॥
विषये वा पुरे वा ते यदा नापकरोम्यहम्।
न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥ 4.17.22 ॥
फलमूलाशनं नित्यं वानरं वनगोचरम्।
मामिहाप्रतियुद्ध्यन्तमन्येन च समागतम् ॥ 4.17.23 ॥
लिङ्गमप्यस्ति ते राजन् दृश्यतेऽधर्मसंहितम् ॥ 4.17.24 ॥
कः क्षत्€ित्रयकुले जातः श्रुतवान्नष्टसंशयः।
धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ 4.17.25 ॥
राम राजकुले जातो धर्मवानिति विश्रुतः।
अभव्यो भव्यरूपेण किमर्थं परिधावसि ॥ 4.17.26 ॥
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥ 4.17.27 ॥
वयं वनचरा राम मृगा मूलफलाशनाः।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ 4.17.28 ॥
भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च।
अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ 4.17.29 ॥
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि।
राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः ॥ 4.17.30 ॥
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः।
राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः ॥ 4.17.31 ॥
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता।
इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ॥ 4.17.32 ॥
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्।
किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ 4.17.33 ॥
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ 4.17.34 ॥
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः।
लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ॥ 4.17.35 ॥
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ 4.17.36 ॥
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्€त्रेण राघव।
शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥ 4.17.37 ॥
चर्म चास्थि च मे राजन् न स्पृशन्ति मनीषिणः।
अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥ 4.17.38 ॥
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्।
तदतिक्रम्य मोहेन कालस्य वशमागतः ॥ 4.17.39 ॥
त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा।
प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा ॥ 4.17.40 ॥
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः।
कथं दशरथेन त्वं जातः पापो महात्मना ॥ 4.17.41 ॥
छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना।
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ 4.17.42 ॥
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्।
वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ॥ 4.17.43 ॥
उदासीनेषु योऽस्मासु विक्रमस्ते प्रकाशितः।
अपकारिषु तं राजन्नहि पश्यामि विक्रमम् ॥ 4.17.44 ॥
दृश्यमानस्तु युध्येथा मया यदि नृपात्मज।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ 4.17.45 ॥
त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः।
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ 4.17.46 ॥
मैथिलीमहमेकाह्ना तव चानीतवान् भवेत्।
राक्षसं च दुरात्मानं तव भार्यापहारिणम् ॥ 4.17.47 ॥
सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया।
कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे ॥ 4.17.48 ॥
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्।
आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ॥ 4.17.49 ॥
युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि।
अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥ 4.17.50 ॥
काममेवंविधो लोकः कालेन विनियुज्यते।
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ 4.17.51 ॥
इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्व्यथितो महात्मा।
समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराजसूनुः ॥ 4.17.52 ॥