०१६ वालिवधः

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ 4.16.1 ॥
गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः।
मर्षयिष्याम्यहं केन कारणेन वरानने ॥ 4.16.2 ॥
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ 4.16.3 ॥
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ 4.16.4 ॥
न च कार्यो विषादस्ते राघवं प्रति मत्कृते।
ध्रमज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ 4.16.5 ॥
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुच्छसि।
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ 4.16.6 ॥
प्रति योत्साम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्।
दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ 4.16.7 ॥
अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम्।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ 4.16.8 ॥
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्।
कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ॥ 4.16.9 ॥
शापितासि मम प्राणैर्निवर्तस्व जयेन च।
अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ 4.16.10 ॥
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ 4.16.11 ॥
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ 4.16.12 ॥
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्।
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ 4.16.13 ॥
स निःश्वस्य महातेजा वाली परमरोषणः।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ 4.16.14 ॥
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ 4.16.15 ॥
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्।
गाढं परिदधे वासो वाली परमरोषणः ॥ 4.16.16 ॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ 4.16.17 ॥
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः।
सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम् ॥ 4.16.18 ॥
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्।
आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ 4.16.19 ॥
एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ 4.16.20 ॥
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्।
तवैव चाहरन् प्राणान् मुष्टिः पततु मूर्धनि ॥ 4.16.21 ॥
ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगितः।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ 4.16.22 ॥
सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ 4.16.23 ॥
स तु वाली प्रचलितः सालताडनविह्वलः।
गुरुभारसमाक्रान्तो नौसार्थ इव सागरे ॥ 4.16.24 ॥
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे।
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ॥ 4.16.25 ॥
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः।
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ 4.16.26 ॥
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः।
वालिनं प्रति सामर्षो दर्शयामास लाघवम् ॥ 4.16.27 ॥
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनःपुनः।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ 4.16.28 ॥
तौ शोणिताक्तौ युद्ध्येतां वानरौ वनचारिणौ।
मेघाविव महाशब्दैस्तर्जमा(या)नौ परस्परम् ॥ 4.16.29 ॥
हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम्।
वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ 4.16.30 ॥
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्।
शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ 4.16.31 ॥
ततो धनुषि सन्धाय शरमाशीविषोपमम्।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥ 4.16.32 ॥
तस्य ज्यातलघोषेण त्रस्ताः पत्€त्ररथेश्वराः।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इवमोहिताः ॥ 4.16.33 ॥
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ 4.16.34 ॥
ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः।
वेगेनाभिहतो वाली निपपात महीतले ॥ 4.16.35 ॥
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतेले।
आश्वयुक्समये मासि गत श्रीको विचेतनः ॥ 4.16.36 ॥
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम्।
ससर्ज दीप्तं तममित्रमर्द्दनं सधूममग्निं मुखतो यथा हरः ॥ 4.16.37 ॥
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः।
विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ 4.16.38 ॥