अथ तस्य निनादं तु सुग्रीवस्य महात्मनः।
शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ 4.15.1 ॥
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्।
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ 4.15.2 ॥
स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ 4.15.3 ॥
वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः।
भात्युत्पतितमद्माभः समृणाल इव ह्रदः ॥ 4.15.4 ॥
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः।
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ 4.15.5 ॥
तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा।
उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥ 4.15.6 ॥
साधु क्रोधमिमं वीर नदीवेगमिवागतम्।
शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ 4.15.7 ॥
काल्यमेतेन सङ्ग्रामं करिष्यसि च वानर।
वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ 4.15.8 ॥
सहसा तव निष्क्रामो मम तावन्न रोचते।
श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ 4.15.9 ॥
पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि।
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ 4.15.10 ॥
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः।
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ 4.15.11 ॥
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः।
निनादश्चापि संरम्भो नैतदल्पं हि कारणम् ॥ 4.15.12 ॥
नासहायमहं मन्ये सुग्रीवं तमिहागतम्।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ 4.15.13 ॥
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः।
अपरीक्षितवीर्येण सुग्रीवः सह नेष्यति ॥ 4.15.14 ॥
पूर्वमेव मया वीर श्रुतं कथयतो वचः।
अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ 4.15.15 ॥
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः।
प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥ 4.15.16 ॥
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ।
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ॥ 4.15.17 ॥
तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः।
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ॥ 4.15.18 ॥
निवासवृक्षः साधूनामापन्नानां परा गतिः।
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥ 4.15.19 ॥
ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः।
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ 4.15.20 ॥
तत्क्षमं न विरोधस्ते सह तेन महात्मना।
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ 4.15.21 ॥
शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम्।
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥ 4.15.22 ॥
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय।
विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा ॥ 4.15.23 ॥
अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्।
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ॥ 4.15.24 ॥
लालनीयो हि ते भ्राता यवीयानेष वानरः।
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ 4.15.25 ॥
न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन।
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥ 4.15.26 ॥
वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु।
सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ 4.15.27 ॥
भ्रातुः सौहृदमालम्ब नान्या गितिरिहास्ति ते ॥ 4.15.28 ॥
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्।
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ 4.15.29 ॥
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि।
क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा ॥ 4.15.30 ॥
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे।
न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ॥ 4.15.31 ॥