सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ 4.14.1 ॥
विचार्य सर्वतो दृष्टिं कानने काननप्रियः।
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ॥ 4.14.2 ॥
परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्।
गर्जन्निव महामेघो वायुवेगपुरस्सरः ॥ 4.14.3 ॥
अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा।
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ॥ 4.14.4 ॥
हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्।
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ॥ 4.14.5 ॥
प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा।
सफलां तां कुरु क्षिप्रं लतां काल इवागतः ॥ 4.14.6 ॥
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः।
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ॥ 4.14.7 ॥
कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया।
लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव ॥ 4.14.8 ॥
शोभसे ह्यधिकं वीर लतया कण्ठसक्तया।
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ 4.14.9 ॥
अद्य वालिसमुत्थं ते भयं वैरं च वानर।
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥ 4.14.10 ॥
मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्।
वाली विनिहतो यावद्वने पांसुषु वेष्टते ॥ 4.14.11 ॥
यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते।
ततो दोषेण माऽऽगच्छेत् सद्यो गर्हेच्च मा भवान् ॥ 4.14.12 ॥
प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः।
तेनावेहि बलेनाद्य वालिनं निहतं मया ॥ 4.14.13 ॥
अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता।
धर्मलोभपरीतेन न च वक्ष्ये कथञ्चन ॥ 4.14.14 ॥
सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम्।
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ॥ 4.14.15 ॥
तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः।
सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ॥ 4.14.16 ॥
जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा।
निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः ॥ 4.14.17 ॥
रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे।
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ॥ 4.14.18 ॥
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः।
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥ 4.14.19 ॥
तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः।
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ॥ 4.14.20 ॥
द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः।
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥ 4.14.21 ॥
ततः स जीमूतगणप्रणादो नादं ह्यमुञ्चत्त्वरया प्रतीतः।
सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः ॥ 4.14.22 ॥