ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः।
जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ 4.13.1 ॥
समुद्यम्य महच्चापं रामः काञ्चनभूषितम्।
शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ॥ 4.13.2 ॥
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः।
सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ 4.13.3 ॥
पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः।
तारश्चैव महातेजा हरियूथपयूथपः ॥ 4.13.4 ॥
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः।
प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ॥ 4.13.5 ॥
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा।
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ 4.13.6 ॥
वैडूर्यविमलैः पर्णैः पद्मैश्चाकोशकुङ्मलैः।
शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन् ॥ 4.13.7 ॥
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः।
चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ॥ 4.13.8 ॥
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्।
चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान् स्थितान् ॥ 4.13.9 ॥
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्।
घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ॥ 4.13.10 ॥
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्।
वारणान् वारिदप्रख्यान् महीरेणुसमुक्षितान् ॥ 4.13.11 ॥
वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान्।
पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ 4.13.12 ॥
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः।
द्रुमषण्ड वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ 4.13.13 ॥
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते।
मेघसङ्घातविपुलः पर्यन्तकदलीवृतः ॥ 4.13.14 ॥
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे।
कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ 4.13.15 ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ॥ 4.13.16 ॥
एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम्।
उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ 4.13.17 ॥
अत्र सप्तजना नाम मुनयः संशितव्रताः।
सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ 4.13.18 ॥
सप्तरात्रकृताहारा वायुना वनवासिनाः।
दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ 4.13.19 ॥
तेषामेवम्प्रभावानां द्रुमप्राकारसंवृतम्।
आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥ 4.13.20 ॥
पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः।
विशन्ति मोहाद्ये तत्र निवर्तन्ते न ते पुनः ॥ 4.13.21 ॥
विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः।
तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ॥ 4.13.22 ॥
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्यत्र प्रकाशते।
वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥ 4.13.23 ॥
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः।
मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ 4.13.24 ॥
कुरु प्रणामं धर्मात्मन् तान् समुद्दिश्य राघव।
लक्ष्णणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ 4.13.25 ॥
प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम्।
न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ॥ 4.13.26 ॥
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः।
समुद्दिस्य महात्मानस्तानृषीनभ्यवादयत् ॥ 4.13.27 ॥
अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः।
सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ 4.13.28 ॥
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्।
ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ 4.13.29 ॥
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः।
पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ॥ 4.13.30 ॥