एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ 4.12.1 ॥
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ॥ 4.12.2 ॥
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः।
भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ॥ 4.12.3 ॥
प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः।
निष्पत्य च पुनस्तूर्णं स्वतूर्णीं प्रविवेश ह ॥ 4.12.4 ॥
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ 4.12.5 ॥
स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः।
सुग्रीवः परमप्रीतो राघवाय कृताञ्चलिः ॥ 4.12.6 ॥
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ 4.12.7 ॥
सेन्द्रानपि सुरान्त्सर्वांस्त्वं बाणैः पुरुषर्षभ।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ 4.12.8 ॥
येन सप्त महासाला गिरिर्भूमिश्च दारिताः।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ 4.12.9 ॥
अद्य मे विगतः शोकः प्रीतिरद्यः परा मम।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ 4.12.10 ॥
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्।
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ 4.12.11 ॥
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ 4.12.12 ॥
अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ 4.12.13 ॥
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ 4.12.14 ॥
सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात्।
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ 4.12.15 ॥
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः।
निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव ॥ 4.12.16 ॥
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्।
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥ 4.12.17 ॥
तलैरशनिकल्पैश्च वज्रकल्पैश्चमुष्टिभिः।
जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ ॥ 4.12.18 ॥
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु।
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥ 4.12.19 ॥
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः।
ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ॥ 4.12.20 ॥
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना।
अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ॥ 4.12.21 ॥
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः।
वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥ 4.12.22 ॥
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः।
मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ॥ 4.12.23 ॥
राघवोऽपि सहभ्रात्रा सह चैव हनूमता।
तदेव वनमागच्छत् सग्रीवो यत्र वानरः ॥ 4.12.24 ॥
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्।
ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥ 4.12.25 ॥
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्।
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ 4.12.26 ॥
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः।
वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥ 4.12.27 ॥
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः।
करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ 4.12.28 ॥
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्।
कारणं येन बाणोऽयं न मया स विसर्जितः ॥ 4.12.29 ॥
अलङ्कारेण वेषेण प्रमाणेन गतेन च।
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ 4.12.30 ॥
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये।
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ 4.12.31 ॥
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्।
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥ 4.12.32 ॥
मूलघातो न नौ स्याद्धि द्वयोरपिकृतो मया ॥ 4.12.33 ॥
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया।
मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥ 4.12.34 ॥
दत्ताभयवधो नाम पातकं महदुच्यते ॥ 4.12.35 ॥
अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी।
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् ॥ 4.12.36 ॥
एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे।
निरस्तमिषुणैकेन वेष्टमानं महीतले ॥ 4.12.37 ॥
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर।
येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥ 4.12.38 ॥
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्।
कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ 4.12.39 ॥
ततो गरितटे जातामुत्पाट्य कुसुमाकुलाम्।
लक्ष्मणो गृजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ 4.12.40 ॥
स तया शुशुभे श्रीमान् लतया कण्ठसक्तया।
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ 4.12.41 ॥
विभ्राजमानो वपुषा रामवाक्यसमाहितः।
जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ 4.12.42 ॥