०११ वालिपराक्रमवर्णनम्

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्।
सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥ 4.11.1 ॥
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः।
त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥ 4.11.2 ॥
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या।
तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥ 4.11.3 ॥
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ 4.11.4 ॥
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि।
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ 4.11.5 ॥
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः।
वालिना तरसा भग्ना बलं प्रथयतात्मनः ॥ 4.11.6 ॥
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः।
बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ 4.11.7 ॥
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः।
जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ 4.11.8 ॥
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम्।
मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ 4.11.9 ॥
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः।
अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ 4.11.10 ॥
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद।
श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ 4.11.11 ॥
शैलराजो महारण्ये तपस्विशरणं परम्।
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ 4.11.12 ॥
गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः।
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥ 4.11.13 ॥
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः।
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ 4.11.14 ॥
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः।
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ 4.11.15 ॥
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः।
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ 4.11.16 ॥
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल।
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ 4.11.17 ॥
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ 4.11.18 ॥
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः।
तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ 4.11.19 ॥
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः।
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ 4.11.20 ॥
वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः।
अध्यास्ते वानरः श्रीमान् किष्कन्धामतुलप्रभाम् ॥ 4.11.21 ॥
स समर्थो महाप्राज्ञस्तव युद्धविशारदः।
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥ 4.11.22 ॥
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि।
स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ 4.11.23 ॥
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः।
जगाम तं पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ 4.11.24 ॥
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।
प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ 4.11.25 ॥
ततस्तद्द्वारमागम्य किष्कन्धाया महाबलः।
ननर्द कम्पयन् भूमिं दुन्धुभिर्दुन्दुभिर्यथा ॥ 4.11.26 ॥
समीपस्थान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः।
विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा ॥ 4.11.27 ॥
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः।
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ 4.11.28 ॥
मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम्।
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ 4.11.29 ॥
किमर्थं नगरद्वारमिदं रुद्धा विनर्दसि।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबलः ॥ 4.11.30 ॥
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ 4.11.31 ॥
न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ 4.11.32 ॥
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्।
गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ 4.11.33 ॥
दीयतां सम्प्रदानं च परिष्वज्य च वानरान्।
सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ॥ 4.11.34 ॥
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे।
क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥ 4.11.35 ॥
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्।
हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ 4.11.36 ॥
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्।
विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥ 4.11.37 ॥
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे।
मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम् ॥ 4.11.38 ॥
तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम्।
पित्रा दत्तां महेन्द्रेण यद्धाय व्यवतिष्ठत ॥ 4.11.39 ॥
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम्।
आविध्यत तदा वाली विनदन् कपिकुञ्जरः ॥ 4.11.40 ॥
वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम्।
श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ 4.11.41 ॥
तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः।
युद्धं समभवद्घोरं दुन्दुभेर्वानरस्य च ॥ 4.11.42 ॥
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः।
मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥ 4.11.43 ॥
परस्परं घ्नोतस्तत्र वानरासुरयोस्तदा।
आसीददसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥ 4.11.44 ॥
व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः।
तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ॥ 4.11.45 ॥
युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा।
पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ 4.11.46 ॥
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्।
चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ॥ 4.11.47 ॥
तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः।
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ 4.11.48 ॥
तान् दृष्ट्वा पतितांस्तस्य मुनिः शोणितविप्रुषः।
क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥ 4.11.49 ॥
येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना।
कोऽयं दुरात्मा दुर्बद्धिरकृतात्मा च बालिशः ॥ 4.11.50 ॥
इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः।
महिषं पर्वताकारं गतासुं पतितं भुवि ॥ 4.11.51 ॥
स तु विज्ञाय तपसा वानरेण कृतं हि तत्।
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥ 4.11.52 ॥
वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः।
सम्भग्नाः पादपाश्चेमे क्षिपतेहासुरीं तनुम् ॥ 4.11.53 ॥
समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि।
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ॥ 4.11.54 ॥
ये चापि सचिवास्तस्य संश्रिता मामकं वनम्।
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ 4.11.55 ॥
यदि तेऽपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्।
वनेऽस्मिन् मामके नित्यं पुत्रवत्परीरक्षिते ॥ 4.11.56 ॥
पत्€त्राङ्कुरविनाशाय फलमूलाभवाय च ॥ 4.11.57 ॥
दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्।
बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥ 4.11.58 ॥
ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम्।
निश्चक्रमुर्वनात्तस्मात्तान् दृष्ट्वा वालिरब्रवीत् ॥ 4.11.59 ॥
किं भवन्तः समस्ताश्च मतङ्गवनवासिनः।
मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥ 4.11.60 ॥
ततस्ते कारणं सर्वं तदा शापं च वालिनः।
शशंसुर्वानराः सर्वे वालिने हेममालिने ॥ 4.11.61 ॥
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्।
स महर्षिं तदासाद्य याचते स्म कृताञ्जलिः ॥ 4.11.62 ॥
महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा।
शापधारणभीतस्तु वाली विह्वलतां गतः ॥ 4.11.63 ॥
ततः शापभयाद्भीत ऋश्यमूकं महागिरिम्।
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥ 4.11.64 ॥
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम्।
विचरामि सहामात्यो विषादेन विवर्जितः ॥ 4.11.65 ॥
एषोस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते।
वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ 4.11.66 ॥
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः।
यत्रैकं घटते वाली निष्प्रत्€त्रयितुमोजसा ॥ 4.11.67 ॥
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम्।
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥ 4.11.68 ॥
तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत्।
कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥ 4.11.69 ॥
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा।
एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ 4.11.70 ॥
रामोऽपि दारयेदेषां बाणेनैकेन चेद्द्रुमम्।
वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥ 4.11.71 ॥
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण।
उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुःशते ॥ 4.11.72 ॥
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्।
ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोब्रवीत् ॥ 4.11.73 ॥
शूरश्च शूरघाती च प्रख्यातबलपौरुषः।
बलवान् वानरो वाली संयुगेष्वपराजितः ॥ 4.11.74 ॥
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि।
यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥ 4.11.75 ॥
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्।
विचिन्तयन्न मुञ्चामि ऋश्यमूकमहं त्विमम् ॥ 4.11.76 ॥
उद्विग्नः शङ्कितश्चापि विचरामि महावने।
अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ॥ 4.11.77 ॥
उपलब्धं च मे श्लाध्यं सन्मित्रं मित्रवत्सल।
त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ 4.11.78 ॥
किन्तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः।
अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥ 4.11.79 ॥
न खल्वहं त्वां तुलये नावमन्ये न भीषये।
कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥ 4.11.80 ॥
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः।
सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ 4.11.81 ॥
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः।
स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥ 4.11.82 ॥
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर।
प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥ 4.11.83 ॥
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया।
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ 4.11.84 ॥
असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्।
क्षिप्तं दृष्ट्वा ततः कायं सुगीवः पुनरब्रवीत् ॥ 4.11.85 ॥
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ 4.11.86 ॥
आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे।
लघुः सम्म्प्रति निर्मांसस्तृणभूतश्च राघव ॥ 4.11.87 ॥
क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन।
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥ 4.11.88 ॥
आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम्।
स एव संशयस्तात तव तस्य च यद्बले ॥ 4.11.89 ॥
सालमेकं तु निर्भिन्द्या भवेद्व्यक्तिर्बलाबले ॥ 4.11.90 ॥
कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम्।
आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ 4.11.91 ॥
इमं हि सालं सहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति।
अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया ॥ 4.11.92 ॥
यथा हि तेजस्सु वरः सदा रविर्यथा हि शैलो हिमवान् महाद्रिषु।
यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ॥ 4.11.93 ॥