००९ सुग्रीवेण वैरकारणकथनम्

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः।
पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ 4.9.1 ॥
पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः।
कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥ 4.9.2 ॥
राज्यं प्रशासतस्तस्य पितृपैतामहं महत्।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ॥ 4.9.3 ॥
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः।
तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ॥ 4.9.4 ॥
स तु सुप्तजने रात्रै किष्किन्धाद्वारमागतः।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ 4.9.5 ॥
प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम्।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ 4.9.6 ॥
स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम्।
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ 4.9.7 ॥
स तु निर्धूय सर्वान्नो निर्जगाम महाबलः।
ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ 4.9.8 ॥
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थिम्।
असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम् ॥ 4.9.9 ॥
तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ।
प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ 4.9.10 ॥
स तृणैरावृतं दुर्गं धरण्या विवरं महत्।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ 4.9.11 ॥
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशङ्गतः।
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ 4.9.12 ॥
इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः।
यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥ 4.9.13 ॥
मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः।
शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत् ॥ 4.9.14 ॥
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः।
स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ॥ 4.9.15 ॥
अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः।
भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः ॥ 4.9.16 ॥
अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम्।
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ 4.9.17 ॥
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः।
निरस्तस्य च सङ्ग्रामे क्रोशतो निस्वनो गुरोः ॥ 4.9.18 ॥
पिधाय च बिलद्वारं शिलया गिरिमात्रया।
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥ 4.9.19 ॥
गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम्।
ततोऽहं तैः समागम्य सम्मतैरभिषेचितः ॥ 4.9.20 ॥
राज्यं प्रशासतस्तस्य न्यायतो मम राघव।
आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ॥ 4.9.21 ॥
अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः।
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ 4.9.22 ॥
निग्रहेऽपि समर्थस्य तं पापं प्रति राघव।
न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता ॥ 4.9.23 ॥
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा।
मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ॥ 4.9.24 ॥
उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्माना ॥ 4.9.25 ॥
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो।
अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ 4.9.26 ॥