००८ रामेण वालिवधनिश्चयः

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः।
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ 4.8.1 ॥
सर्वथाऽहमनुग्राह्यो देवतानामसंशयः।
उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥ 4.8.2 ॥
शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ।
सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥ 4.8.3 ॥
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव।
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ 4.8.4 ॥
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः।
न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ॥ 4.8.5 ॥
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्।
निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ॥ 4.8.6 ॥
रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च।
अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ 4.8.7 ॥
अढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ 4.8.8 ॥
धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः।
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ 4.8.9 ॥
तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम्।
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ 4.8.10 ॥
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्।
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ 4.8.11 ॥
स ददर्श ततः सालमविदूरे हरीश्वरः।
सुपुष्पमीषत्पत्€त्राढ्यं भ्रमरैरुपशोभितम् ॥ 4.8.12 ॥
तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ 4.8.13 ॥
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्।
सालशाखां समुत्पाट्य वीनीतपवेशयत् ॥ 4.8.14 ॥
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा।
फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे ॥ 4.8.15 ॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा।
उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ 4.8.16 ॥
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः।
ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ 4.8.17 ॥
सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ 4.8.18 ॥
वालिनो मे भयार्तस्य सर्वलोकभयङ्कर।
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ 4.8.19 ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः।
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ 4.8.20 ॥
उपकारफलं मित्रमपकारोऽरिलक्षणम्।
अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ 4.8.21 ॥
इमे हि मे महावेगाः पत्€ित्रणस्तिग्मतेजसः।
कार्त्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ 4.8.22 ॥
कङ्कपत्€त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः।
सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भूजगा इव ॥ 4.8.23 ॥
भ्रातृसञ्ज्ञममित्रं ते वालिनं कृतकिल्बिषम्।
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ 4.8.24 ॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ 4.8.25 ॥
राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः।
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ 4.8.26 ॥
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्।
कृतः प्राणैर्बहुमतः सत्येनापि शपामि ते ॥ 4.8.27 ॥
वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम्।
दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ॥ 4.8.28 ॥
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः।
बाष्पोपहतया वाचा नौच्चैः शक्नोति भाषितुम् ॥ 4.8.29 ॥
बाष्पवेगं तु सहसा नदीवेगमिवागतम्।
धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ 4.8.30 ॥
सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे।
विनिःश्वस्य च तेजस्वी राघवं वाक्यमब्रवीत् ॥ 4.8.31 ॥
पुराहं वालिना राम राज्यात् स्वादवरोपितः।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ 4.8.32 ॥
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी।
सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥ 4.8.33 ॥
यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव।
बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ 4.8.34 ॥
शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव।
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ 4.8.35 ॥
केवलं हि सहाया मे हनुमत्प्रमुकास्त्विमे।
अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥ 4.8.36 ॥
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः।
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ 4.8.37 ॥
सङ्क्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते।
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ 4.8.38 ॥
तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम्।
सुखं मे जीविनं चैव तद्विनाशनिबन्धनम् ॥ 4.8.39 ॥
एष मे राम शोकान्तः शोकार्तेन निवेदितः।
दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः ॥ 4.8.40 ॥
श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत्।
किन्निमित्तभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ 4.8.41 ॥
सुखं हि कारणं श्रत्वा वैरस्य तव वानर।
आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम् ॥ 4.8.42 ॥
बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्।
वर्तते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ 4.8.43 ॥
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः।
सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ॥ 4.8.44 ॥
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना।
प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ॥ 4.8.45 ॥
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे।
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ 4.8.46 ॥