००७ राम-सुग्रीवयोः परस्परं साहाय्यप्रतिज्ञा

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः।
अब्रवीत् प्राञ्चलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥ 4.7.1 ॥
न जाने निलयं तस्य सर्वथा पापरक्षसः।
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥ 4.7.2 ॥
सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम।
करिष्यामि तथा यत्नं यथा प्राप्यसि मैथिलीम् ॥ 4.7.3 ॥
रावणं सगणं हत्वा परितोष्यात्मपौरुषम्।
तथाऽस्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ॥ 4.7.4 ॥
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर।
त्वद्विधानामसदृशमीदृशं विद्धि लाघवम् ॥ 4.7.5 ॥
मयापि व्यसनं प्राप्तं भार्याहरणजं महत्।
न चाहमेवं शोचामि न च धैर्यं परित्यजे ॥ 4.7.6 ॥
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्।
महात्मा च विनीतश्च किं पुनर्धृतिमान् भवान् ॥ 4.7.7 ॥
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि।
मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ 4.7.8 ॥
व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तके।
विमृशन् वै स्वया बुद्ध्या धृतिमान्नावसीदति ॥ 4.7.9 ॥
बालिशस्तु नरो नित्यं वैक्लव्यं योनुवर्तते।
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ 4.7.10 ॥
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये।
पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ 4.7.11 ॥
ये शोकमनुर्तन्ते न तेषां विद्यते सुखम्।
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ 4.7.12 ॥
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः।
स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ 4.7.13 ॥
हितं वयस्यभावेन ब्रूमि नोपदिशामि ते।
वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ 4.7.14 ॥
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः।
मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ 4.7.15 ॥
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः।
सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ 4.7.16 ॥
कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च।
अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ 4.7.17 ॥
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे।
दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ॥ 4.7.18 ॥
किन्तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ 4.7.19 ॥
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्।
वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते मयि ॥ 4.7.20 ॥
मया य यदिदं वाक्यमभिमानात्समीरितम्।
तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ 4.7.21 ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।
एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ 4.7.22 ॥
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह।
राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ 4.7.23 ॥
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ।
उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ॥ 4.7.24 ॥
महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य।
कृतं स मेने हरिवीरमुख्यस्तदा स्वकार्यं हृदयेन विद्वान् ॥ 4.7.25 ॥