००६ रामेण सीता-आभरणदर्शनम्

पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ॥ 4.6.1 ॥
अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः।
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ॥ 4.6.2 ॥
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव।
रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ॥ 4.6.3 ॥
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता।
अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥ 4.6.4 ॥
भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे।
अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥ 4.6.5 ॥
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले।
अहमानीय दास्यामि तव भार्यामरिन्दम ॥ 4.6.6 ॥
इदं तथ्यं मम वचस्त्वमवेहि च राघव।
न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ॥ 4.6.7 ॥
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ 4.6.8 ॥
त्यज शोकं महाबाहो तां कान्तमानयामि ते।
अनुमानात्तु जानामि मैथिली सा न संशयः ॥ 4.6.9 ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम्।
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ 4.6.10 ॥
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम्।
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ 4.6.11 ॥
तान्यस्माभिर्गृहीतानि निहितानि च राघव।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ 4.6.12 ॥
तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम्।
आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥ 4.6.13 ॥
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्।
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ 4.6.14 ॥
उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च।
इदं पश्येति रामाय दर्शयामास वानरः ॥ 4.6.15 ॥
ततो गृहीत्वा तद्वासः शुभान्याभरणानि च।
अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ 4.6.16 ॥
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः।
हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ 4.6.17 ॥
हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम्।
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ 4.6.18 ॥
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः।
परिदेवयितुं दीनं रामः समुपचक्रमे ॥ 4.6.19 ॥
पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया।
उत्तरीयमिदं भूमै शरीराद्भूषणानि च ॥ 4.6.20 ॥
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया।
उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ 4.6.21 ॥
नाहं जानामि केयूरे नाहं जानामि कुण्डले।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ 4.6.22 ॥
ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ॥ 4.6.23 ॥
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया।
रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ 4.6.24 ॥
क्व वा वसति तद्रक्षो महद्व्यसनदं मम।
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ॥ 4.6.25 ॥
हरता मैथिलीं येन मां च रोषयता भृशम्।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ 4.6.26 ॥
मम दयिततरा हृता वनान्ताद्रजनिचरेण विमथ्य येन सा।
कथम मम रिपुं त्वमद्य वै प्लवगपते यमसादनं नयामि ॥ 4.6.27 ॥