ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम्।
आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ 4.5.1 ॥
अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ 4.5.2 ॥
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः।
धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥ 4.5.3 ॥
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः।
रावणेन हृता भार्या स त्वां शरणमागतः ॥ 4.5.4 ॥
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः।
दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥ 4.5.5 ॥
तपसा सत्यवाक्येन वसुधा येन पालिता।
स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ 4.5.6 ॥
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ।
प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ॥ 4.5.7 ॥
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः।
भयं च राघवाद्घोरं प्रजहौ विगतज्वरः ॥ 4.5.8 ॥
स कृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ 4.5.9 ॥
भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ 4.5.10 ॥
तन्मयैवैष सत्कारो लाभश्चैवोत्तमः प्रभो।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ 4.5.11 ॥
रोचते यदि वा सख्यं बाहुरेष प्रसारितः।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥ 4.5.12 ॥
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम्।
स प्रहृष्टमना हस्तं पीडयामास पाणिना ॥ 4.5.13 ॥
हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ 4.5.14 ॥
ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः।
काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥ 4.5.15 ॥
दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्।
तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः ॥ 4.5.16 ॥
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्।
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥ 4.5.17 ॥
ततः सुप्रीतमनसौ तावुभौ हरिराघवौ।
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ॥ 4.5.18 ॥
त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ।
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ॥ 4.5.19 ॥
ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम्।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ 4.5.20 ॥
लक्ष्मणायाथ संहृष्टो हनुमान् प्लवगर्षभः।
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ॥ 4.5.21 ॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा।
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ॥ 4.5.22 ॥
अहं विनिकृतो राम चरामीह भयार्दितः।
हृतभार्यो वने त्रस्तो दुर्गमे तदुपाश्रितः ॥ 4.5.23 ॥
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ 4.5.24 ॥
वालिनो मे महाभाग भयार्तस्याभयं कुरु।
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ 4.5.25 ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः।
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ 4.5.26 ॥
उपकारफलं मित्रं विदितं मे माहकपे।
वालिनं तं वधिष्यामि तव भार्यापहारिणम् ॥ 4.5.27 ॥
अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः।
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ 4.5.28 ॥
कङ्कपत्त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः।
तीक्ष्णाग्रा ऋजुपर्वाणाः सरोषा भुजगा इव ॥ 4.5.29 ॥
तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः।
शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ 4.5.30 ॥
स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ 4.5.31 ॥
तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम्।
तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम् ॥ 4.5.32 ॥
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि।
सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ 4.5.33 ॥