ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः।
श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ 4.4.1 ॥
भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ 4.4.2 ॥
ततः परमसंहृष्टो हमुमान् प्लवगर्षभः।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ 4.4.3 ॥
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्।
आगतः सानुजौ दुर्गं नानाव्यालमृगायुतम् ॥ 4.4.4 ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ 4.4.5 ॥
राजा दशरथो नाम द्युतिमान् दर्मवत्सलः।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ 4.4.6 ॥
स च सर्वेषु भूतेषु पितामह इवापरः।
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ॥ 4.4.7 ॥
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः।
शरण्यः सर्वभूतानां पितुर्निर्देषपारगः ॥ 4.4.8 ॥
वीरो दशरथस्यायं पुत्राणां गुणवत्तमः।
राजलक्षणसम्पन्नः संयुक्तो राजसम्पदा ॥ 4.4.9 ॥
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः।
भार्यया च महातेजाः सीतयाऽनुगतो वशी ॥ 4.4.10 ॥
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ 4.4.11 ॥
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ 4.4.12 ॥
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ 4.4.13 ॥
रक्षसाऽपहृता भार्या रहिते कामरूपिणा।
तञ्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ 4.4.14 ॥
दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः।
आख्यातस्तेन सुग्रीवः समर्थो वानमर्षभः ॥ 4.4.15 ॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ॥ 4.4.16 ॥
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ 4.4.17 ॥
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ 4.4.18 ॥
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ 4.4.19 ॥
पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ 4.4.20 ॥
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥ 4.4.21 ॥
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः।
स रामो वानरेन्दस्य प्रसादमभिकाङ्क्षते ॥ 4.4.22 ॥
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥ 4.4.23 ॥
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ 4.4.24 ॥
शोकाभिभूते रामे तु शोकार्तं शरणं गते।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः ॥ 4.4.25 ॥
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम्।
हनुमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 4.4.26 ॥
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ 4.4.27 ॥
स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ 4.4.28 ॥
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ 4.4.29 ॥
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा।
बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम् ॥ 4.4.30 ॥
एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ 4.4.31 ॥
कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः।
कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ 4.4.32 ॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते।
नानृतं वक्ष्यते वीरो हनुमान् मारुतात्मजः ॥ 4.4.33 ॥
ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ 4.4.34 ॥
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ 4.4.35 ॥
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः।
गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ॥ 4.4.36 ॥