००३ हनुमता सुग्रीववृत्तान्तकथनम्

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः।
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥ 4.3.1 ॥
कपिरूपं परित्यज्य हनुमान् मारुतात्मजः।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ 4.3.2 ॥
विनीतवदुपागम्य राघवौ प्रणिपत्य च।
आबभाषे तदा वीरौ यथावत् प्रशशंस च ॥ 4.3.3 ॥
सम्पूज्य विधिवद्वीरो हनुमान् मारुतात्मजः।
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥ 4.3.4 ॥
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ।
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ 4.3.5 ॥
त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः।
पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः ॥ 4.3.6 ॥
इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ।
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ॥ 4.3.7 ॥
निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः।
सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ॥ 4.3.8 ॥
शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ।
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ॥ 4.3.9 ॥
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ 4.3.10 ॥
प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ॥ 4.3.11 ॥
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ।
पद्मपत्€त्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥ 4.3.12 ॥
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ।
यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् ॥ 4.3.13 ॥
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ।
सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ ॥ 4.3.14 ॥
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः।
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ॥ 4.3.15 ॥
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्।
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ 4.3.16 ॥
इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने।
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ॥ 4.3.17 ॥
सम्पूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः।
जीवितान्तकरैर्घोरैः श्वसद्भिरिव पन्नगैः ॥ 4.3.18 ॥
महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ।
खड्गावैतौ विराजेते निर्मुक्ताविव पन्नागौ ॥ 4.3.19 ॥
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ॥ 4.3.20 ॥
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ 4.3.21 ॥
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना।
राज्ञा वानरमुख्यानां हनूमान्नाम वानरः ॥ 4.3.22 ॥
युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ 4.3.23 ॥
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया।
ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥ 4.3.24 ॥
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ।
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किञ्चन ॥ 4.3.25 ॥
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्।
प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥ 4.3.26 ॥
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः।
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ॥ 4.3.27 ॥
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्।
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम ॥ 4.3.28 ॥
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः।
नासामवेदविदुषः शक्यमेवं प्रभाषितुम् ॥ 4.3.29 ॥
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।
बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ 4.3.30 ॥
न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा।
अन्येष्वपि च गात्रेषु दोषः संविदितः क्वचित् ॥ 4.3.31 ॥
अविस्तरमसन्दिग्धमविलम्बितमद्रुतम्।
उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे ॥ 4.3.32 ॥
संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम्।
उञ्चारययति कल्यार्णीं वाचं हृदयहारिणीम् ॥ 4.3.33 ॥
अनया चित्रया वाचा त्रिस्थानव्यञ्चनस्थया।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ 4.3.34 ॥
एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु।
सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥ 4.3.35 ॥
एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः।
तस्य सिद्ध्यन्ति सर्वार्था दूतवाक्यप्रचोदिताः ॥ 4.3.36 ॥
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ 4.3.37 ॥
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः।
तमेवं चावां मार्गावः सुग्रीवं प्लवगेश्वरम् ॥ 4.3.38 ॥
यथा ब्रवीषि हनुमन् सुग्रीववचनादिह।
तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ 4.3.39 ॥
तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः।
मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ 4.3.40 ॥