तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ।
वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ 4.2.1 ॥
उद्विग्नहृदयः सर्वा दिशः समवलोकयन्।
न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ॥ 4.2.2 ॥
नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ।
कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ 4.2.3 ॥
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्।
सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ॥ 4.2.4 ॥
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ 4.2.5 ॥
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्।
छद्भना चीरवसनौ प्रचरन्ताविहागतौ ॥ 4.2.6 ॥
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ।
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ 4.2.7 ॥
ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम्।
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥ 4.2.8 ॥
एकमेकायनगताः प्लवमाना गिरेर्गिरिम्।
प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ॥ 4.2.9 ॥
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः।
बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान् ॥ 4.2.10 ॥
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्।
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ॥ 4.2.11 ॥
ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः।
सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ 4.2.12 ॥
ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम्।
उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः ॥ 4.2.13 ॥
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्।
मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ 4.2.14 ॥
यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव।
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ 4.2.15 ॥
यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः।
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ 4.2.16 ॥
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम।
लघुचित्ततयात्मानं न स्थापयसि यो मतौ ॥ 4.2.17 ॥
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर।
न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ 4.2.18 ॥
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः।
ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ 4.2.19 ॥
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ।
कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ 4.2.20 ॥
वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ 4.2.21 ॥
अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः।
विश्वस्तानामविश्वस्ता रन्ध्रेषु प्रहरन्ति हि ॥ 4.2.22 ॥
कृत्येषु वाली मेधावी राजानो बहुदर्शनाः।
भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ 4.2.23 ॥
तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम।
इङ्गितानां प्रकरैश्च रूपव्याभाषणेन च ॥ 4.2.24 ॥
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि।
विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनःपुनः ॥ 4.2.25 ॥
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ 4.2.26 ॥
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम।
व्याभाषितैर्वा विज्ञेया स्याद्दुष्टादुष्टता तयोः ॥ 4.2.27 ॥
इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः।
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ 4.2.28 ॥
तथेति सम्पूज्य वचस्तु तस्य तत्कपेः सुभीमस्य दुरासदस्य च।
महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥ 4.2.29 ॥