दिवं तु तस्यां यातायां शबर्या स्वेन तेजसा।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ 3.75.1 ॥
स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम्।
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ 3.75.2 ॥
दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्।
विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ 3.75.3 ॥
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण।
उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ 3.75.4 ॥
प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम्।
तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ॥ 3.75.5 ॥
हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ॥ 3.75.6 ॥
तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्।
ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ॥ 3.75.7 ॥
यस्मिन् वसति धर्मात्मा सुग्रीवोऽशुम्मतः सुतः।
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरौः ॥ 3.75.8 ॥
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्।
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ 3.75.9 ॥
एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत्।
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ॥ 3.75.10 ॥
आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः।
आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥ 3.75.11 ॥
स ददर्श ततः पुण्यामुदारजनसेविताम्।
नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम् ॥ 3.75.12 ॥
पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः।
नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ॥ 3.75.13 ॥
स तामासाद्य वै रामौ दूरादुदकवाहिनीम्।
मतङ्गसरसं नाम ह्रदं समवगाहत ॥ 3.75.14 ॥
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्।
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥ 3.75.15 ॥
तिलकैर्बीजपूरैश्च धवैः शुक्लद्रुमैस्तथा।
पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ॥ 3.75.16 ॥
मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा।
अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ॥ 3.75.17 ॥
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम्।
समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम् ॥ 3.75.18 ॥
कोयष्टिकैश्चार्जुनकैः शतपत्त्रैश्च कीरकैः।
एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ॥ 3.75.19 ॥
ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ।
तद्वनं चैव सरसः पश्यन्तो शकुनैर्युतम् ॥ 3.75.20 ॥
प्रहृष्टनानाशकुनां पादपैरुपशोभिताम्।
[ तिलकाशोकपुन्नागवकुलोद्दालकाशिनीम् ] ॥ 3.75.21 ॥
स रामो विविधान् वृक्षान् सरांसि विविधानि च।
पश्यन् कामाभिसन्तप्तो जगाम परमं ह्रदम् ॥ 3.75.22 ॥
पुष्पितोपवनोपेतां सालचम्पकशोभिताम्।
षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ॥ 3.75.23 ॥
स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम्।
इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥ 3.75.24 ॥
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः।
ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ॥ 3.75.25 ॥
हरेर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः।
अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ 3.75.26 ॥
सुग्रीवमभिगच्छ त्वं वानरेन्दं नरर्षभ।
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ 3.75.27 ॥
राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा।
कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ॥ 3.75.28 ॥
इत्येवमुक्त्वा मदनाभिपिडितः स लक्ष्मणं वाक्यमनन्यचेतसम्।
विवेश पम्पां नलीनीं मनोहरां रघूत्तमः शोकविषादयन्त्रितः ॥ 3.75.29 ॥
ततो महद्वर्त्म सुदूरसङ्क्रमः क्रमेण गत्वा प्रतिकूलधन्वनम्।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ॥ 3.75.30 ॥