०७४ शबरीकथा

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने।
प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ 3.74.1 ॥
तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान्।
वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ 3.74.2 ॥
कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ।
पम्पायाः पश्चिमं तीरं राघवावुपतस्थस्तुः ॥ 3.74.3 ॥
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ 3.74.4 ॥
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ 3.74.5 ॥
रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः।
पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि ॥ 3.74.6 ॥
तामुवाच ततो रामः श्रमणीं संशितव्रताम्।
कच्चित्ते निर्जिता विघ्नाः कच्चिते वर्धते तपः ॥ 3.74.7 ॥
कच्चित्ते नियतः क्रोध आहारश्च तपोधने।
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ॥ 3.74.8 ॥
कच्चिते गुरुशुश्रूषा सफला चारुभाषिणि ॥ 3.74.9 ॥
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता।
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥ 3.74.10 ॥
अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया।
अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः ॥ 3.74.11 ॥
अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति।
त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ 3.74.12 ॥
चक्षुषा तव सौम्येन पूताऽस्मि रघुनन्दन।
गमिष्याम्यक्षयान् लोकांस्त्वत्प्रसादादरिन्दम ॥ 3.74.13 ॥
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः।
इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ 3.74.14 ॥
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः।
आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ 3.74.15 ॥
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः।
तं च दृष्ट्वा वरान् लोकानक्षयांस्त्वं गमिष्यसि ॥ 3.74.16 ॥
मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ।
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ॥ 3.74.17 ॥
एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्।
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥ 3.74.18 ॥
दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः।
श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे ॥ 3.74.19 ॥
एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्।
शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ 3.74.20 ॥
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्।
मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥ 3.74.21 ॥
इह ते भावितात्मानो गुरवो मे महाद्युते।
जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ॥ 3.74.22 ॥
इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः।
पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ 3.74.23 ॥
तेषां तपःप्रभावेन पश्याद्यापि रघूद्वह।
द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः ॥ 3.74.24 ॥
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः।
चिन्तितेऽभ्यागतान् पश्य सहितान् सप्त सागरान् ॥ 3.74.25 ॥
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह।
अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन ॥ 3.74.26 ॥
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै।
पुष्पैः कुवलयैः सार्धं म्लानत्वं नोपयान्ति वै ॥ 3.74.27 ॥
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया।
तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम् ॥ 3.74.28 ॥
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्।
मुनीनामाश्रमो येषामहं च परिचारिणी ॥ 3.74.29 ॥
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः।
प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥ 3.74.30 ॥
तामुवाच ततो रामः श्रमणीं संशितव्रताम्।
अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम् ॥ 3.74.31 ॥
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा।
तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती ॥ 3.74.32 ॥
अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने।
ज्वलत्पावसङ्काशा स्वर्गमेव जागम सा ॥ 3.74.33 ॥
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना।
विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ॥ 3.74.34 ॥
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः।
तत्पुण्यं शबरीस्थानं जगमात्मसमाधिना ॥ 3.74.35 ॥