०७३ सुग्रीवास्थानमार्गदर्शनम्

निदर्शयित्वा रामाय सीतायाः प्रतिपादने।
वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ 3.73.1 ॥
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ 3.73.2 ॥
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः ॥ 3.73.3 ॥
नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः।
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ॥ 3.73.4 ॥
तानारूह्याथवा भूमौ पातयित्वा च तान् बलात्।
फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ॥ 3.73.5 ॥
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्।
नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव ॥ 3.73.6 ॥
सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः।
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ॥ 3.73.7 ॥
फलभारानतास्तत्र महाविटपधारिणः।
शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः ॥ 3.73.8 ॥
तानारुह्याथ वा भूमौ पातयित्वा यथासुखम्।
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ॥ 3.73.9 ॥
चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं वनाद्वनम्।
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ॥ 3.73.10 ॥
अशर्करामविभ्रंशां समतीर्थामशैवलाम्।
राम सञ्चातवालूकां कमलोत्पलशालिनीम् ॥ 3.73.11 ॥
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव।
वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः ॥ 3.73.12 ॥
नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः।
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिश्यथः ॥ 3.73.13 ॥
रोहितान् वक्रतुण्डांश्च नडमीनांश्च राघव।
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् ॥ 3.73.14 ॥
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्।
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ॥ 3.73.15 ॥
भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसञ्चये।
पद्मगन्धि शिवं वारि सुखशीतमनामयम् ॥ 3.73.16 ॥
उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम्।
असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ॥ 3.73.17 ॥
स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः।
अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ॥ 3.73.18 ॥
रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥ 3.73.19 ॥
सायाह्ने विचरन् राम विटपीन् माल्यधारिणः।
शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि ॥ 3.73.20 ॥
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्।
उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥ 3.73.21 ॥
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः।
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ॥ 3.73.22 ॥
मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः।
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥ 3.73.23 ॥
तानि जातानि माल्यानि मुनीनां तपसा तदा।
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ 3.73.24 ॥
तेषामद्यापि तत्रैव दृश्यते परिचारिणी।
श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥ 3.73.25 ॥
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्।
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥ 3.73.26 ॥
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्।
आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ॥ 3.73.27 ॥
न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्।
विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ॥ 3.73.28 ॥
ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्।
मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥ 3.73.29 ॥
तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने।
नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः ॥ 3.73.30 ॥
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः।
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥ 3.73.31 ॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि।
यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥ 3.73.32 ॥
न त्वेनं विषमाचारः पापकर्माधिरोहति ॥ 3.73.33 ॥
यस्तु तं विषमाचारः पापकर्माधिरोहति।
तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥ 3.73.34 ॥
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान्।
क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ॥ 3.73.35 ॥
सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः।
प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ॥ 3.73.36 ॥
[ अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम् ॥ ] निर्वृताः संविगाहन्ते वनानि वनगोचराः ॥ 3.73.37 ॥
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्।
रुरूनपेतापजयान् दृष्ट्वा शोकं जहिष्यसि ॥ 3.73.38 ॥
राम तस्य तु शैलस्य महती शोभते गुहा।
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ॥ 3.73.39 ॥
तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः।
फलमूलान्वितो रम्यो नानामृगसमावृत्तः ॥ 3.73.40 ॥
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः।
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ 3.73.41 ॥
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ।
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥ 3.73.42 ॥
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ।
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके ॥ 3.73.43 ॥
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च।
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ 3.73.44 ॥
स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः।
निदर्शयन् राममवेक्ष्य खस्थं सख्यं कुरुष्वेति तदाभ्युवाच ॥ 3.73.45 ॥