०७२ सीताप्राप्त्युपायकथनम्

एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥ 3.72.1 ॥
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः।
चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ 3.72.2 ॥
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्।
मेदसा पच्यमानस्य मन्दं दहति पावकः ॥ 3.72.3 ॥
स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः।
अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ॥ 3.72.4 ॥
ततश्चिताया वेगेन भास्वरो विमलाम्बरः।
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥ 3.72.5 ॥
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे।
प्रभया च महातेजा दिशो दश विराजयन् ॥ 3.72.6 ॥
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्।
शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥ 3.72.7 ॥
राम षड्युक्तयो लोके याभिः सत्त्वं विमृश्यते ॥ 3.72.8 ॥
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥ 3.72.9 ॥
तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर।
अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ॥ 3.72.10 ॥
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ 3.72.11 ॥
ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते।
निवसत्यात्मवान् वीरश्चतुर्भिस्सह वानरैः ॥ 3.72.12 ॥
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः।
सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥ 3.72.13 ॥
दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः।
भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ॥ 3.72.14 ॥
स ते सहायो मित्रं च सीतायाः परिमार्गणे।
भविष्यति हि ते राम मा च शोके मनः कृथाः ॥ 3.72.15 ॥
भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा।
कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ 3.72.16 ॥
वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव।
अद्रोहाय समागम्य दीप्यमाने विभावसौ ॥ 3.72.17 ॥
स च ते नावमन्तव्यः सुग्रीवो वानराधिपः।
कृतज्ञः कामरूपी च सहायर्थी च वीर्यवान् ॥ 3.72.18 ॥
शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्।
कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति ॥ 3.72.19 ॥
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः।
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ॥ 3.72.20 ॥
सन्निधायायुधं क्षिप्रमृश्यमूकालयं कपिम्।
कुरु राघव सत्येन वयस्यं वनचारिणम् ॥ 3.72.21 ॥
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः।
नरमांसाशिनां लोके नैपुण्यादधिगच्छति ॥ 3.72.22 ॥
न तस्याविदितं लोके किञ्चिदस्ति हि राघव।
यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम ॥ 3.72.23 ॥
स नदीर्विपुलाञ्छैलान् गिरिदुर्गाणि कन्दरान्।
अन्वीक्ष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति ॥ 3.72.24 ॥
वानरांश्च महाकायान् प्रेषयिष्यति राघव।
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ॥ 3.72.25 ॥
स ज्ञास्यति वरारोहां निर्मलां रावणालये ॥ 3.72.26 ॥
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम्।
प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥ 3.72.27 ॥