०७१ कबन्धेन स्ववृत्तान्तकथनम्

रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्।
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ 3.71.1 ॥
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्।
ऋषीन्वनगतान् राम त्रासयामि ततस्ततः ॥ 3.71.2 ॥
ततः स्थूलशिरा नाम महर्षिः कोपितो मया।
सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ॥ 3.71.3 ॥
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना।
एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥ 3.71.4 ॥
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति।
अभिशापकृतस्येति तेनेदं भाषितं वचः ॥ 3.71.5 ॥
यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने।
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥ 3.71.6 ॥
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण।
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ॥ 3.71.7 ॥
अहं हि तपसोग्रेण पितामहमतोषयम्।
दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोस्पृशत् ॥ 3.71.8 ॥
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति।
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ॥ 3.71.9 ॥
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा।
सक्थिनी चैव मूर्धा च शरीरे सम्प्रवेशितम् ॥ 3.71.10 ॥
स मया याच्यमानः सन्नानयद्यमसादनम्।
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ॥ 3.71.11 ॥
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः।
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ॥ 3.71.12 ॥
एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ।
प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ 3.71.13 ॥
सोऽहं भुजाभ्यां दीर्घाभ्यां सङ्कृष्यास्मिन्वनेचरान्।
सिंहद्वीपमृगव्याघ्रान् भक्षयामि समन्ततः ॥ 3.71.14 ॥
स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः।
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यति ॥ 3.71.15 ॥
अनेन वपुषा राम वनेऽस्मिन् राजसत्तम।
यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये ॥ 3.71.16 ॥
अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति।
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ॥ 3.71.17 ॥
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव।
शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ॥ 3.71.18 ॥
अहं हि मतिसाचिव्यं किरष्यामि नरर्षभ।
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ॥ 3.71.19 ॥
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः।
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥ 3.71.20 ॥
रावणेन हृता भार्या मम सीता यशस्विनी।
निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ॥ 3.71.21 ॥
नाममात्रं तु जानामि न रूपं तस्य रक्षसः।
निवासं वा प्रभावं वा वयं तस्य न विद्महे ॥ 3.71.22 ॥
शोकार्तानामनाथानामेवं विपरिधावताम्।
कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ॥ 3.71.23 ॥
काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः।
धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ॥ 3.71.24 ॥
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता।
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ॥ 3.71.25 ॥
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्।
प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥ 3.71.26 ॥
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्।
यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ॥ 3.71.27 ॥
अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो।
राक्षसं तं महावीर्यं सीता येन हृता तव ॥ 3.71.28 ॥
विज्ञानं हि मम भ्रष्टं शापदोषेण राघव।
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ॥ 3.71.29 ॥
किन्तु यावन्न यात्यस्तं सविता श्रान्तवाहनः।
तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥ 3.71.30 ॥
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन।
वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ॥ 3.71.31 ॥
तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव।
कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥ 3.71.32 ॥
न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव।
सर्वान् परिसृतो लोकान् पुराऽसौ कारणान्तरे ॥ 3.71.33 ॥