०७० राम-कबन्धयुद्धम्

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ 3.70.1 ॥
तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्त्रियर्षभौ।
आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ॥ 3.70.2 ॥
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा।
उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः ॥ 3.70.3 ॥
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ॥ 3.70.4 ॥
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ 3.70.5 ॥
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः।
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ 3.70.6 ॥
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रद्धस्तु राक्षसः।
विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ 3.70.7 ॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ।
अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥ 3.70.8 ॥
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ 3.70.9 ॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः।
खं च गां च दिशश्चैव नादयन् जलदो यथा ॥ 3.70.10 ॥
स निकृत्तौ भूजौ दृष्ट्वा शोणितौघपरिप्लुतः।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ 3.70.11 ॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः।
शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ 3.70.12 ॥
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः।
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ 3.70.13 ॥
अस्य देवप्रभावस्य वसतो विजने वने।
रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥ 3.70.14 ॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने।
आस्येनोरसि दीप्तेन भग्नजङ्घो विवेष्टसे ॥ 3.70.15 ॥
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः।
उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ 3.70.16 ॥
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम्।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ 3.70.17 ॥
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा।
तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥ 3.70.18 ॥