कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ।
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥ 3.69.1 ॥
तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ।
अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥ 3.69.2 ॥
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥ 3.69.3 ॥
व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम्।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ 3.69.4 ॥
ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ।
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥ 3.69.5 ॥
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः।
नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ॥ 3.69.6 ॥
दिदृक्षमाणौ वैहेहीं तद्वनं तौ विचिक्यतुः।
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥ 3.69.7 ॥
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा।
क्रोञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ॥ 3.69.8 ॥
दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम्।
नानासत्त्वसमाकीर्णं सर्वं गहनपादपम् ॥ 3.69.9 ॥
ददृशाते तु तौ तत्र दरीं दशरथत्मजौ।
पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥ 3.69.10 ॥
आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः।
ददृशाते महारूपां राक्षसीं विकृताननाम् ॥ 3.69.11 ॥
भयदामल्पसत्त्वानां बीभत्सां सौद्रदर्शनाम्।
लम्बोदरीं तीक्ष्णदंष्ट्रां करालां परुषत्वचम् ॥ 3.69.12 ॥
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम्।
प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ 3.69.13 ॥
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः।
एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ॥ 3.69.14 ॥
उवाच चैनं वचनं सौमित्रिमुपगुह्य सा ॥ 3.69.15 ॥
नाथ पर्वतकूटेषु नदीनां पुलिनेषु च।
आयुःशेषमिमं वीर त्वं मया सह रंस्यसे ॥ 3.69.16 ॥
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः।
कर्णनासौ स्तनौ चास्या निचकर्तारिसूदनः ॥ 3.69.17 ॥
कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च।
यथागतं प्रदुद्राव राक्षसी भीमदर्शना ॥ 3.69.18 ॥
तस्यां गतायां गहनं विशन्तौ वनमोजसा।
आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ 3.69.19 ॥
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः।
अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥ 3.69.20 ॥
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ 3.69.21 ॥
तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम्।
ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ॥ 3.69.22 ॥
एष वञ्चुलको नाम पक्षी परमदारुणः।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ 3.69.23 ॥
तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा।
सञ्जज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ॥ 3.69.24 ॥
संवेष्टितमिवात्यर्थं गगनं मातरिश्वना।
वनस्य तस्य शब्दोभूद्दिवमापूरयन्निव ॥ 3.69.25 ॥
तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः।
ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥ 3.69.26 ॥
आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम्।
विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ॥ 3.69.27 ॥
रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्।
नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ 3.69.28 ॥
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता।
महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ॥ 3.69.29 ॥
एकेनोरसि घोरेण नयनेनाशुदर्शिना।
महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ॥ 3.69.30 ॥
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान्।
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥ 3.69.31 ॥
आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्।
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ॥ 3.69.32 ॥
अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः।
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥ 3.69.33 ॥
कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ॥ 3.69.34 ॥
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भूजौ।
जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ 3.69.35 ॥
खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ।ड्गि भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥ 3.69.36 ॥
बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे।
उवाच च विषण्णः सन् राघवं राघवानुजः ॥ 3.69.37 ॥
पश्य मां वीर विवशं राक्षसस्य वशं गतम्।
मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव ॥ 3.69.38 ॥
मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम् ॥ 3.69.39 ॥
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः ॥ 3.69.40 ॥
प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्।
तत्र मां राम राज्यस्थः स्मर्तुमर्हिसि सर्वदा ॥ 3.69.41 ॥
लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्।
मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति ॥ 3.69.42 ॥
एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ।
पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः ॥ 3.69.43 ॥
कौ युवां वृषभस्कन्धौ महाखङ्गधनुर्धरौ।
घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ॥ 3.69.44 ॥
वदतं कार्यमिह वां किमर्थं चागतौ युवाम्।
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ॥ 3.69.45 ॥
सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ।
ममास्यमनुमम्प्राप्तौ दुर्लभं जीवितं पुनः ॥ 3.69.46 ॥
तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ 3.69.47 ॥
कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम।
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥ 3.69.48 ॥
कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण।
त्वां च मां नरव्याघ्र व्यसनैः पश्य मोहितौ ॥ 3.69.49 ॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे।
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ 3.69.50 ॥
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्।
अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाकरोत् ॥ 3.69.51 ॥