रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम्।
सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ 3.68.1 ॥
ममायं नूनमर्थेषु यतमानो विहङ्गमः।
राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ॥ 3.68.2 ॥
अयमस्य शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते।
तथाहि स्वरहीनोऽयं विक्लवः समुदीक्षते ॥ 3.68.3 ॥
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ 3.68.4 ॥
किन्निमित्तोऽहरत्सीतां रावणस्तस्य किं मया।
अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ 3.68.5 ॥
कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम्।
सीतया कानि चोक्तामि तस्मिन् काले द्विजोत्तम ॥ 3.68.6 ॥
कथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः।
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ 3.68.7 ॥
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्।
वाचाऽतिसन्नया रामं जटायुरिदमब्रवीत् ॥ 3.68.8 ॥
हृता सा राक्षसेन्द्रेण रावणेन विहायसा।
मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ॥ 3.68.9 ॥
परिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः।
सीतामादाय वैहेहीं प्रयातो दक्षिणां दिशम् ॥ 3.68.10 ॥
उपरुद्ध्यन्ति मे प्राणा दष्टिर्भ्रमति राघव।
पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥ 3.68.11 ॥
येन यातो मुहूर्तेन सीतामादाय रावणः।
विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ 3.68.12 ॥
त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः।
झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ 3.68.13 ॥
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति।
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥ 3.68.14 ॥
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः।
आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ 3.68.15 ॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च।
इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ 3.68.16 ॥
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः।
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ 3.68.17 ॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा।
विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ 3.68.18 ॥
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्।
रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ 3.68.19 ॥
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्।
अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥ 3.68.20 ॥
अनेकवार्षिको यस्तु चिरकालसमुत्थितः।
सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ 3.68.21 ॥
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे।
सीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ 3.68.22 ॥
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्।
मम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥ 3.68.23 ॥
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः।
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ 3.68.24 ॥
सीता हरणजं दुःखं न मे सौम्य तथागतम्।
यथा विनाशे गृध्रस्य मत्कृते च परन्तप ॥ 3.68.25 ॥
राजा दशरथः श्रीमान् यथा मम महायशाः।
पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ॥ 3.68.26 ॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्।
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥ 3.68.27 ॥
नाथं पतगलोकस्य चितामारोप्य राघव।
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ 3.68.28 ॥
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः।
अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ 3.68.29 ॥
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्।
गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ 3.68.30 ॥
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्।
ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ 3.68.31 ॥
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्।
स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् ॥ 3.68.32 ॥
रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः।
शकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ 3.68.33 ॥
यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः।
तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥ 3.68.34 ॥
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ।
उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ 3.68.35 ॥
शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ।
स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ 3.68.36 ॥
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः।
महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ 3.68.37 ॥
कृतोदकौतावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः।
प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥ 3.68.38 ॥