पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्।
सारग्राही महासारं प्रतिजग्राह राघवः ॥ 3.67.1 ॥
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ 3.67.2 ॥
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण।
केनोपायेन पश्येयं सीतामिति विचन्तय ॥ 3.67.3 ॥
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि।
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ॥ 3.67.4 ॥
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि व।
गुहाश्च विविधा घोरा नानामृगगणाकुलाः ॥ 3.67.5 ॥
आवासाः किन्नराणां च गन्धर्वभवनानि च।
तानि युक्तो मया सार्धं त्वमन्वेषितुर्महसि ॥ 3.67.6 ॥
त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ।
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ॥ 3.67.7 ॥
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः।
क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ॥ 3.67.8 ॥
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्।
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥ 3.67.9 ॥
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्।
अनेन सीता वैदेही भक्षिता नात्र संशसः ॥ 3.67.10 ॥
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने।
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ॥ 3.67.11 ॥
एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः ॥ 3.67.12 ॥
इत्युक्त्वाऽभ्यपतद् गृध्रं सन्धाय धनुषि क्षुरम्।
क्रुद्धो रामः समुद्रान्तां कम्पयन्निव मेदिनीम् ॥ 3.67.13 ॥
तं दीनं दीनया वाचा सफेनं रुधिरं वमन्।
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥ 3.67.14 ॥
यामोषधिमिवायुष्मन्नन्वेषसि महावने।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ 3.67.15 ॥
त्वया विरहिता देवी लक्ष्मणेन च राघव।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ 3.67.16 ॥
सीतामभ्यवपन्नोहं रावणश्च रणे मया।
विध्वंसितरथश्चात्र पातितो धरणीतले ॥ 3.67.17 ॥
एतदस्य धनुर्भग्नमेतदस्य शरावरम्।
अयमस्य रथो राम भग्नः साङ्ग्रामिको मया ॥ 3.67.18 ॥
अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ॥ 3.67.19 ॥
परिश्रान्तस्य मे पक्षौ छित्त्वा खङ्गेन रावणः।
सीतामादाय वैदेहीमुत्पपात विहायसम् ॥ 3.67.20 ॥
रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि ॥ 3.67.21 ॥
रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा।
द्विगुणीकृततापार्तः सीतासक्तां प्रियां कथाम् ॥ 3.67.22 ॥
गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः।
निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥ 3.67.23 ॥
एकमेकायने दुर्गे निःश्वसन्तं कथञ्चन।
समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत् ॥ 3.67.24 ॥
राज्याद्भ्रंशो वने वासः सीता नष्टा द्विजो हतः।
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥ 3.67.25 ॥
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम्।
सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥ 3.67.26 ॥
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे।
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ 3.67.27 ॥
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ 3.67.28 ॥
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः।
जाटयुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥ 3.67.29 ॥
निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः।
क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ॥ 3.67.30 ॥