तं तथा शोकसन्तप्तं विलपन्तमनाथवत्।
मोहेन महाताविष्टं परिद्यूनमचेतनम् ॥ 3.66.1 ॥
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्णः।
रामं सम्बोधयामास चरणै चाभिपीडयन् ॥ 3.66.2 ॥
महता तपसा राम महता चापि कर्मणा।
राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ॥ 3.66.3 ॥
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः।
राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥ 3.66.4 ॥
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे।
प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिश्यति ॥ 3.66.5 ॥
दुःखितो हि भवान् लोकांस्तेजसा यदि धक्ष्यते।
आर्ताः प्रजा नरव्याघ्र क्वनु यास्यन्ति निर्वृतिम् ॥ 3.66.6 ॥
लोकस्वभाव एवैष ययातिर्नहुषात्मजः।
गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत् ॥ 3.66.7 ॥
महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः।
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ 3.66.8 ॥
या चेयं जगतां माता देवी लोकनमस्कृता।
अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव ॥ 3.66.9 ॥
यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम्।
आदित्यचन्दौ ग्रहणमभ्युपेतौ महाबलौ ॥ 3.66.10 ॥
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ।
न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः ॥ 3.66.11 ॥
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ।
श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि ॥ 3.66.12 ॥
नष्टायामपि वैदेह्यां हृतायामपि चानघ।
शोचितुं नार्हसे वीर यथाऽन्यः प्राकृतस्तथा ॥ 3.66.13 ॥
त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः।
सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥ 3.66.14 ॥
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय।
बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ॥ 3.66.15 ॥
अदृष्टगुणदोषाणामधृतानां च कर्मणाम्।
नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥ 3.66.16 ॥
त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः।
अनुशिष्याद्धि कोनु त्वामपि साक्षाद्बृहस्पतिः ॥ 3.66.17 ॥
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया।
शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥ 3.66.18 ॥
दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम्।
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ 3.66.19 ॥
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ।
तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ 3.66.20 ॥