तप्यमानं तथा रामं सीताहरणकर्शितम्।
लोकानामभवे युक्तं संवर्तकमिवानलम् ॥ 3.65.1 ॥
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनःपुनः।
दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ॥ 3.65.2 ॥
अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः।
अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ 3.65.3 ॥
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ 3.65.4 ॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा।
एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥ 3.65.5 ॥
न तु जानामि कस्यायं भग्नः साङग्रामिको रथः।
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः ॥ 3.65.6 ॥
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः।
देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज ॥ 3.65.7 ॥
एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर।
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ॥ 3.65.8 ॥
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि।
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥ 3.65.9 ॥
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः।
को नु दारप्रणाशं ते साधु मन्येत राघव ॥ 3.65.10 ॥
सरितः सागराः शैला देवगन्धर्वदानवाः।
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ॥ 3.65.11 ॥
येन राजन् हृता सीता तमन्वेषितुमर्हसि।
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥ 3.65.12 ॥
समुद्रं च विचेष्यामः पर्वतांश्च वनानि च।
गुहाश्च विविधा घोरा नदीः पद्मवनानि च ॥ 3.65.13 ॥
देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः।
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ॥ 3.65.14 ॥
न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः।
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥ 3.65.15 ॥
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र।
ततः समुत्पादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः ॥ 3.65.16 ॥