०६४ रामसन्तापः

शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्।
अपि गोदावरीं सीता पद्मान्यानयितुं गता ॥ 3.64.1 ॥
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा।
नदीं गोदावरीं रम्यां जगाम लघु विक्रमः ॥ 3.64.2 ॥
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ॥ 3.64.3 ॥
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥ 3.64.4 ॥
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी।
न ह्यहं वेद तं देशं यत्र सा जनकात्मजा ॥ 3.64.5 ॥
लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः।
रामः समभिचक्राम स्वयं गोदावरीं नदीम् ॥ 3.64.6 ॥
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ 3.64.7 ॥
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति।
न तां शशंसू रामाय तथा गोदावरी नदी ॥ 3.64.8 ॥
ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति।
न तु साभ्यवदत्सीतां पृष्टा रामेण शोचता ॥ 3.64.9 ॥
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः।
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥ 3.64.10 ॥
निराशस्तु तया नद्या सीताया दर्शने कृतः।
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥ 3.64.11 ॥
किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः।
मातरं चैव वैदेह्या विना तामहमप्रियम् ॥ 3.64.12 ॥
या मे राज्यविहीनस्य वने वन्येन जीवतः।
सर्वं व्यपनयेच्छोकं वैदेही क्वनु सा गता ॥ 3.64.13 ॥
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः।
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥ 3.64.14 ॥
मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्।
सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ॥ 3.64.15 ॥
एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः।
वक्तुकामा इव हि मे इङ्गितान्युपलक्षये ॥ 3.64.16 ॥
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह।
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया दृशा ॥ 3.64.17 ॥
एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः।
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् ॥ 3.64.18 ॥
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत।
तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम् ॥ 3.64.19 ॥
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः।
पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः ॥ 3.64.20 ॥
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्।
उवाच लक्ष्मणो ज्येष्ठं धीमान् भ्रातरमार्तवत् ॥ 3.64.21 ॥
क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः।
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ॥ 3.64.22 ॥
साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम्।
यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते ॥ 3.64.23 ॥
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्।
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम् ॥ 3.64.24 ॥
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ।
वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् ॥ 3.64.25 ॥
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले।
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥ 3.64.26 ॥
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण।
पिनद्धानीह वैदेह्या मया दत्तानि कानने ॥ 3.64.27 ॥
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी।
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ॥ 3.64.28 ॥
एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः।
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ॥ 3.64.29 ॥
कच्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।
रामा रम्ये वनोद्देशे मया विरहिता त्वया ॥ 3.64.30 ॥
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥ 3.64.31 ॥
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत।
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ 3.64.32 ॥
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति।
शंसन्निव ततः सीतां नादर्शयत राघवे ॥ 3.64.33 ॥
ततो दाशरथी राम उवाच च शिलोच्चयम् ॥ 3.64.34 ॥
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि।
असेव्यः सन्ततं चैव निस्तृणद्रुमपल्लवः ॥ 3.64.35 ॥
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण।
यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम् ॥ 3.64.36 ॥
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा।
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ॥ 3.64.37 ॥
त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः।
राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ॥ 3.64.38 ॥
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्।
सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ 3.64.39 ॥
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः।
भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ 3.64.40 ॥
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ 3.64.41 ॥
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः।
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ 3.64.42 ॥
तस्या निमित्तं वैहेह्या द्वयोर्विवदमानयोः।
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ 3.64.43 ॥
मुक्तामणिमयं चेदं तपनीयविभूषितम्।
धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥ 3.64.44 ॥
तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम्।
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् ॥ 3.64.45 ॥
छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम्।
भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम् ॥ 3.64.46 ॥
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः।
भीमरूपा महाकायाः कस्य वा निहता रणे ॥ 3.64.47 ॥
दीप्तपावकसङ्काशो द्युतिमान् समरध्वजः।
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः ॥ 3.64.48 ॥
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः।
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥ 3.64.49 ॥
शरावरै शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण।
प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः ॥ 3.64.50 ॥
कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि।
चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ ॥ 3.64.51 ॥
पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः।
वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ॥ 3.64.52 ॥
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः।
हृता मृता वा सीता सा भक्षिता वा तपस्विनी ॥ 3.64.53 ॥
न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ 3.64.54 ॥
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।
के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ 3.64.55 ॥
कर्तारमपि लोकानां शूरं करुणवेदिनम्।
अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ॥ 3.64.56 ॥
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ 3.64.57 ॥
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण।
अद्यैव सर्वभूतानां रक्षसामभवाय च ॥ 3.64.58 ॥
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः।
संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते ॥ 3.64.59 ॥
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।
किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥ 3.64.60 ॥
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण।
निस्सम्पातं करिष्यामि ह्यद्य त्रेलोक्यचारिणाम् ॥ 3.64.61 ॥
सन्निरुद्धग्रहणमावारितनिशाकरम्।
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ 3.64.62 ॥
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्।
त्रैलोक्यं तु करिष्यामि संयुक्तं कालधर्मणा ॥ 3.64.63 ॥
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः।
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥ 3.64.64 ॥
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण।
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् ॥ 3.64.65 ॥
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्।
समाकुलममर्यादं जगत् पश्याद्य(र्य) लक्ष्मण ॥ 3.64.66 ॥
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः।
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ॥ 3.64.67 ॥
मम रोषप्रयुक्तानां सायकानां बलं सुराः।
द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम् ॥ 3.64.68 ॥
नैव देवा न दैतेया न पिशाचा न राक्षसाः।
भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ॥ 3.64.69 ॥
देवदानवयक्षाणां लोका ये रक्षसामपि।
बहुधा न भविष्यन्ति बाणौघैः शकलीकृताः ॥ 3.64.70 ॥
निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः।
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः ॥ 3.64.71 ॥
तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्।
नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ 3.64.72 ॥
इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम्।
शरमादाय सन्दीप्तं घोरमाशीविषोपमम् ॥ 3.64.73 ॥
सन्धाय धनुषि श्रीमान् रामः परपुरञ्जयः।
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ॥ 3.64.74 ॥
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।
तथाहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा ॥ 3.64.75 ॥
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्।
सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम् ॥ 3.64.76 ॥