०६३ लक्ष्मणेन रामसान्त्वनम्

स राजपुत्रः प्रियया विहीनः कामेन शोकेन च पीड्यमानः।
विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेष तीव्रम् ॥ 3.63.1 ॥
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्रो विपुले तु रामः।
उवाच वाक्यं व्यसनानुरूपमुष्णं विनिःश्वस्य रुदन् सशोकम् ॥ 3.63.2 ॥
न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम्।
शोकेन शोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च ॥ 3.63.3 ॥
पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि।
तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ 3.63.4 ॥
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननी वियोगः।
सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ॥ 3.63.5 ॥
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम्।
सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसा प्रदीप्तः ॥ 3.63.6 ॥
सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः।
अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ 3.63.7 ॥
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य।
वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः ॥ 3.63.8 ॥
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्।
रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥ 3.63.9 ॥
तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः।
रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ॥ 3.63.10 ॥
मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा।
नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ॥ 3.63.11 ॥
अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा।
कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ॥ 3.63.12 ॥
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्।
अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी यति हि सा कदाचित् ॥ 3.63.13 ॥
पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता।
तदप्ययुक्तं नहि सा कदाचिन्मया विना गच्छति पङ्कजानि ॥ 3.63.14 ॥
कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्।
वनं प्रयाता नु तदप्ययुक्तमेकाकिनी साति बिभेति भीरुः ॥ 3.63.15 ॥
आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन्।
मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम् ॥ 3.63.16 ॥
लोकेषु सर्वेषु च नास्ति किञ्चिद्यत्ते न नित्यं विदितं भवेत्तत्।
शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा ॥ 3.63.17 ॥
इतीव तं शोकविधेयदेहं रामं विसञ्ज्ञं विलपन्तमेवम्।
उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम् ॥ 3.63.18 ॥
शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः।
उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु ॥ 3.63.19 ॥
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः।
न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत् ॥ 3.63.20 ॥