०६२ रामविलापः

सीतामपश्यन् धर्त्मात्मा कामोपहतचेतनः।
विललाप महाबाहू रामः कमललोचनः ॥ 3.62.1 ॥
पश्यन्निव स तां सीतामपश्यन्मदनार्दितः।
उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ॥ 3.62.2 ॥
त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये।
आवृणोषि शरीरं ते मम शोकविवर्धनी ॥ 3.62.3 ॥
कदलीकाण्डसदृशौ कदल्या संवृतावुभौ।
ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम् ॥ 3.62.4 ॥
कर्णिकारवनं भद्रे हसन्ती देवि सेवसे।
अलं ते परिहासेन मम बाधावहेन वै ॥ 3.62.5 ॥
परिहासेन किं सीते परिश्रान्तस्य मे प्रिये।
अयं स परिहासोऽपि साधु देवि न रोचते ॥ 3.62.6 ॥
अवगच्छामि ते शीलं परिहासप्रियं प्रिये।
आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव ॥ 3.62.7 ॥
सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा।
नहि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण ॥ 3.62.8 ॥
एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण।
शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः ॥ 3.62.9 ॥
हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि।
हा सकामा त्वया देवी कैकेयी सा भविष्यति ॥ 3.62.10 ॥
सीतया सह निर्यातो विना सीतामुपागतः।
कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः ॥ 3.62.11 ॥
निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति।
कातरत्वं प्रकाशं हि सीतापनयनेन मे ॥ 3.62.12 ॥
निवृत्तवनवासश्च जनकं मिथिलाधिपम्।
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् ॥ 3.62.13 ॥
विदेहराजो नूनं मां दृष्ट्वा विरहितं तया।
सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति ॥ 3.62.14 ॥
अथवा न गमिष्यामि पुरीं भरतपालिताम्।
स्वर्गोऽपि सीतया हीनः शून्य एव मतो मम ॥ 3.62.15 ॥
मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम्।
न त्वहं तां विना सीतां जीवेयं हि कथञ्चन ॥ 3.62.16 ॥
गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया।
अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम् ॥ 3.62.17 ॥
अम्बा च मम कैकेयी सुमित्रा च त्वया विभो।
कौसल्या च यथान्यायमभिवाद्या ममाज्ञया ॥ 3.62.18 ॥
रक्षणीया प्रयत्नेन भवता सोक्तकारिणा ॥ 3.62.19 ॥
सीतायाश्च विनाशोऽयं मम चामित्रकर्शन।
विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥ 3.62.20 ॥
इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या।
भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ॥ 3.62.21 ॥