दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः।
रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ 3.61.1 ॥
अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ 3.61.2 ॥
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता।
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ 3.61.3 ॥
वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ 3.61.4 ॥
एते हीनास्त्वाया सौम्ये ध्यायन्त्यास्राविलेक्षणाः।
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण ॥ 3.61.5 ॥
मृतं शोकेन महता सीताहरणजेन माम्।
परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥ 3.61.6 ॥
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः।
अपूरयित्वा तं कालं मत्सकाशमिहागतः ॥ 3.61.7 ॥
कामवृत्तमनार्यं मां मृषावादिनमेव च।
धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ॥ 3.61.8 ॥
विवशं शोकसन्तप्तं दीनं भग्नमनोरथम्।
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ॥ 3.61.9 ॥
क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे।
त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ॥ 3.61.10 ॥
इतीव विलपन् रामः सीतादर्शनलालसः।
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ॥ 3.61.11 ॥
अनासादयमानं तं सीतां दशराथात्मजम्।
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ॥ 3.61.12 ॥
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ 3.61.13 ॥
मा विषादं महाबाहो कुरु यत्नं मया सह।
इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ 3.61.14 ॥
प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ 3.61.15 ॥
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम्।
स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥ 3.61.16 ॥
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ।
तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै ॥ 3.61.17 ॥
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा।
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥ 3.61.18 ॥
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः।
सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥ 3.61.19 ॥
तौ वनानि गिरींश्चैव सरितश्च सरांसि च।
निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ॥ 3.61.20 ॥
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च।
निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ॥ 3.61.21 ॥
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्।
नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ॥ 3.61.22 ॥
ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत्।
विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥ 3.61.23 ॥
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्।
यथा विष्णुर्महाबाहुर्बलिं बध्वा महीमिमाम् ॥ 3.61.24 ॥
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः।
उवाच दीनया वाचा दुःखाभिहतचेतनः ॥ 3.61.25 ॥
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः।
गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ॥ 3.61.26 ॥
नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ 3.61.27 ॥
एवं स विलपन् रामः सीताहरणकर्शितः।
दीनशोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥ 3.61.28 ॥
सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः।
निषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥ 3.61.29 ॥
बहुलं स तु निःश्वस्य रामो राजीवलोचनः।
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ 3.61.30 ॥
तं ततः सान्त्वयामास लक्ष्मणः प्रियबान्धवः।
बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ॥ 3.61.31 ॥
अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम्।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनःपुनः ॥ 3.61.32 ॥