भृशमाव्रजमानस्य तस्याधो वामलोचनम्।
प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत् ॥ 3.60.1 ॥
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः।
अपि क्षेमं नु सीताया इति वै व्याजहार च ॥ 3.60.2 ॥
त्वरमाणो जगामाथ सीतादर्शनलालसः।
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ 3.60.3 ॥
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः।
तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ॥ 3.60.4 ॥
ददर्श पर्णशालां च रहितां सीतया तदा।
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमीव ॥ 3.60.5 ॥
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्।
श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् ॥ 3.60.6 ॥
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्।
दृष्ट्वा शून्यं निजस्थानं विललाप पुनःपुनः ॥ 3.60.7 ॥
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति।
निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥ 3.60.8 ॥
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः।
अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ 3.60.9 ॥
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्।
शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ॥ 3.60.10 ॥
वृक्षाद्वृक्षं प्रधावन् स गिरेश्चाद्रिं नदान्नदीम्।
बभूव विलपन् रामः शोकपङ्कार्णवाप्लुतः ॥ 3.60.11 ॥
अपि कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया।
कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ 3.60.12 ॥
स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी।
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ 3.60.13 ॥
अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्।
जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥ 3.60.14 ॥
ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम्।
यथा पल्लवपुष्पाढयो भाति ह्येष वनस्पतिः ॥ 3.60.15 ॥
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यम्।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ 3.60.16 ॥
अशोक शोकापनुद शोकोपहतचेतसम्।
त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥ 3.60.17 ॥
यदि ताल त्वया दृष्टा पक्वतालफलस्तनी।
कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ 3.60.18 ॥
यदि दृष्टा त्वया सीता जम्बु जम्बुफलोपमाम्।
प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ॥ 3.60.19 ॥
अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम्।
कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ॥ 3.60.20 ॥
चूतनीपमहासालान् पनसान् कुरवान् धवान्।
दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः ॥ 3.60.21 ॥
मल्लिका माधवीश्चैव चम्पकान् केतकीस्तस्था।
पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥ 3.60.22 ॥
अथवा मृगशावाक्षीं मृग जानासि मैथिलीम्।
मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ 3.60.23 ॥
गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत्।
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ 3.60.24 ॥
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना।
मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥ 3.60.25 ॥
किं धावसि प्रिये दूरं दृष्टाऽसि कमलेक्षणे।
वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ 3.60.26 ॥
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि।
नात्यर्थं हास्यशीलाऽसि किमर्थं मामुपेक्षसे ॥ 3.60.27 ॥
पीतकौशेयकेनासि सूचिता वरवर्णिनि।
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ 3.60.28 ॥
नैव सा नूनमथवा हिंसिता चारुहासिनी।
कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति ॥ 3.60.29 ॥
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः।
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥ 3.60.30 ॥
नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम्।
पूर्णचन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम् ॥ 3.60.31 ॥
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता।
कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ 3.60.32 ॥
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ।
भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ 3.60.33 ॥
मया विरहिता बाला रक्षसां भक्षणाय वै।
सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥ 3.60.34 ॥
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्।
हा प्रिये क्व गता भद्रे हा सीतेति पुनःपुनः ॥ 3.60.35 ॥
क्वचिदुद्भ्रमते वेगात् क्वचिद्विभ्रमते बलात्।
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ॥ 3.60.36 ॥
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च।
काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ 3.60.37 ॥
तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति।
अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ 3.60.38 ॥