अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः।
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ॥ 3.59.1 ॥
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्।
यदा सा तव विश्वासाद्वने विरहिता मया ॥ 3.59.2 ॥
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण।
शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥ 3.59.3 ॥
स्फुरते नयनं सव्यं बाहुश्च हुदयं च मे।
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥ 3.59.4 ॥
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्ष्मणः।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ 3.59.5 ॥
न स्वयं कामकारेण तां त्यक्वाहमिहागतः।
प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ 3.59.6 ॥
आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ 3.59.7 ॥
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली।
गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥ 3.59.8 ॥
प्रचोद्यमानेन मया गच्छेति बहुशस्तया।
प्रत्यक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥ 3.59.9 ॥
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत्।
निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ 3.59.10 ॥
विगर्हितं च नीचं च कथमार्योऽभिधास्यति।
त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि ॥ 3.59.11 ॥
किन्निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्।
राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ॥ 3.59.12 ॥
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति।
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ 3.59.13 ॥
न सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे।
जातो वा जायमानो वा संयुगे यः पराजयेत् ॥ 3.59.14 ॥
न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ 3.59.15 ॥
एवमुक्ता तु वैदेही परिमोहितचेतना।
उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ 3.59.16 ॥
भावो मयि तावात्यर्थं पाप एव निवेशितः।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥ 3.59.17 ॥
सङ्केताद्भरतेन त्वं रामं समनुगच्छसि।
क्रोशन्तं हि यथात्यर्थं नैवमभ्यवपद्यसे ॥ 3.59.18 ॥
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि।
राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥ 3.59.19 ॥
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः।
क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ॥ 3.59.20 ॥
एवं ब्रुवाणं सौमित्रिं रामः सन्तापमोहितः।
अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ॥ 3.59.21 ॥
जानन्नपि समर्थं मां रक्षसां विनिवारणे।
अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ॥ 3.59.22 ॥
नहि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्।
क्रुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः ॥ 3.59.23 ॥
सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः।
क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥ 3.59.24 ॥
असौ हि राक्षसः शेते शरेणाभिहतो मया।
मृगरूपेण येनाहमाश्रमादपवाहितः ॥ 3.59.25 ॥
विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया।
मार्गीं तनुं त्यज्य सविक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥ 3.59.26 ॥
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम्।
उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ 3.59.27 ॥